________________
२५१
योगबिन्दु सूत्र : ३४४-३४५-३४६-३४७ औचित्यं भावतः-परमार्थतो, यत्र वस्तुनि वर्तते तत्रायं वस्तुतः प्राणी सम्प्रवर्तते-सम्यक्प्रवृत्तिमान् भवति, नान्यत्र, यदि परं 'क्वचिदुपचारत इति, उपदेशं विनाप्युच्चैरतीव, अन्त:-मध्ये, तेनैव-ग्रन्थिभेदबलोत्पन्नपुरुषकारेणैव, चोदितः-प्रेरित इति ॥३४४ ॥
अतस्तु भावो भावस्य, तत्त्वतः सम्प्रवर्तकः । . शिराकूपे पय इव, पयोवृद्धेर्नियोगतः ॥३४५॥
अतस्त्वत एव पुरुषकारप्रेरणादौचित्येन प्रवृत्तेर्हेतोः भावो-वैराग्यादिः भावस्य-शुभभावान्तरलक्षणस्य तत्त्वत:-परमार्थेन सम्प्रवर्तक उद्भूतिहेतुः । दृष्टान्तमाह शिराकूपे स्वयमेव प्रवृत्तशिरे कूपे पय इव, पयोवृद्धः शिरावृद्ध्याक्षेपाजलातिरेकस्य नियोगत:-नियमेन प्रवर्तकमिति ॥३४५ ॥ नन्वेवमुपदेशवैयर्थ्यमापन्नमित्याशंक्याह
निमित्तमुपदेशस्तु, पवनादिसमो मतः । - अनैकान्तिकभावेन, सतामत्रैव वस्तुनि ॥३४६ ॥
निमित्तं हेतुः उपदेशस्तु-उपदेशः पुनः कीदृश इत्याह 'पवनादिसमः'पवनखननादिजलाभिव्यञ्जनहेतुसदृश: मतः । कथमित्याह अनैकान्तिकभावेन'स्वसाध्यसिद्धावनियतरूपेण सतां-बुद्धिमतां अत्रैव-भवान्तरप्रवर्तने वस्तुनि । अयमत्र भाव:-न हि कूपे जलोत्पत्तिः पवनखननादिनिमित्तं किन्तु भूमिसरसभावनिबन्धना, पवनादयस्तु सत एव जलस्याभिव्यक्तिहेतवः । एवं शुभभाव: शुद्धपुरुषकारबलोद्भव एव, उपदेशस्तु सत एवाभिव्यक्तिहेतुस्तस्येति । अनैकान्तिकभावश्च पवनखननयोरुपदेशस्य च, क्वचिदभावेऽपि भावाद्भावेऽपि चाभावाजलशुभभावयोरिति ॥३४६ ॥ ननु किंफलस्तर्हि शास्त्रेषु तथातथोपदेशः प्रपञ्च्यत इत्याशंक्याह- .
प्रक्रान्ताद्यदनुष्ठानादौचित्येनोत्तरं भवेत् ।
तदाश्रित्योपदेशोऽपि, ज्ञेयो विध्यादिगोचरः ॥३४७॥ प्रक्रान्तात्-स्वत एवारब्धात्सकाशात् यत्-अनुष्ठानं शास्त्रशुश्रूषादि
२. किञ्चिदुपचारत-A; २. निमित्ता किन्तु-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org