________________
२५० योगबिन्दु सूत्र : ३४०-३४१-३४२-३४३-३४४ सत्प्रवृत्तिबाधककर्महासलक्षणो यतो-यस्माद्धेतोः सम्पन्नो वर्तते, अन्यथौचित्यानुसारित्वमेव न स्यात् ॥३४०॥ ।
संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः ।
संज्ञानचक्षुषा सम्यक्, तन्नैर्गुण्योपलब्धितः ॥३४१॥ संसाराद्-नरनारकादिपर्यायरूपात् अस्य-भिन्नग्रन्थेर्जीवस्य निर्वेद:समुद्वेगरूप: 'तथा' इति समुच्चये उच्चैरतीव पारमार्थिको-ऽकृत्रिमो जायते, अत्र हेतुः संज्ञानचक्षुषा-निर्मलविवेकलोचनेन सम्यग्-यथावत् तस्य-संसारस्य नैर्गुण्योपलब्धितो-जरामरणादिव्यसनबहुलतयाऽसारतापरिज्ञानात् ॥३४१ ॥
मुक्तौ दृढानुरागश्च, तथातद्गुणसिद्धितः ।
विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥३४२॥ मुक्तौ-निर्वाणे दृढानुरागश्च-निष्ठुरप्रतिबन्धरूपश्च स्यात् । अत्र हेतुः तथा-तत्प्रकारास्तस्या मुक्तेर्ये गुणा:-जरामरणाद्यभावादयस्तेषां 'सिद्धितः'परिज्ञानात् 'विपर्यय' एव तत्त्वं प्रति विपर्यासरूप: महादुःखं-शेषदुःखातिशायितया तस्य यद्बीजं हेतुर्मिथ्यात्वमोहादि तस्य नाशाद्-विरहात् । चकार: समुच्चये, तत्त्वतो-ऽ'पुनर्भावतया ॥३४२॥ अथ यदर्थमस्यौचित्यानुसारित्वं स्यात्तदर्शयति
एतत्त्यागाप्तिसिद्धयर्थमन्यथा तदभावतः ।
अस्यौचित्यानुसारित्वमलमिष्टार्थसाधनम् ॥३४३॥ एतयो:-संसारमुक्तयोर्यथाक्रमं ये 'त्यागाप्ती' तयोः सिद्ध्यर्थं-निष्पत्तये 'औचित्यानुसारित्वं' इत्युत्तरेण योगः । अन्यथौचित्यानुसारित्वमन्तरेण तदभावत: संसारमुक्त्योस्त्यागाप्त्यभावात् अस्य-प्रस्तुतसत्त्वस्य किमित्याह औचित्यानुसारित्वं' उक्तरूपं, अलं-अत्यर्थं 'इष्टार्थसाधनं'-समीहितसकलप्रयोजनसिद्धिकारि प्रवर्तते ॥३४३॥ औचित्यमेवाश्रित्याह
औचित्यं भावतो यत्र, तत्रायं सम्प्रवर्तते ।
उपदेशं विनाप्युच्चैरन्तस्तेनैव चोदितः ॥३४४॥ १. पुनर्भावितया-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org