________________
२४९
योगबिन्दु सूत्र : ३३७-३३८-३३९-३४० बाध्यते-निराक्रियते दैवं पुरुषकारेण-जीववीर्यशुद्धिरूपेण प्रायशो-बाहुल्येन कदाचित्तथाविधसंक्लेशावस्थायां नन्दिषेणादीनामिव: व्यत्ययोऽपि स्यादिति प्रायोग्रहणम्। व्यत्ययः-पूर्वोक्तविधिविपर्यासरूप: अन्यदा-ऽचरमावर्तेषु, दैवेन पुरुषकारो बाध्यत इत्यर्थः ॥३३७ ॥
तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया ।। - सूक्ष्मबुद्धयावगन्तव्यं, न्यायशास्त्राऽविरोधतः ॥३३८॥
तुल्यत्वं-सदृशभाव: अनयोर्दैवपुरुषकारयोः व्यवहाराद्यपेक्षया व्यवहारमादिशब्दान्निश्चयं चापेक्ष्येति सूक्ष्मबुद्ध्या-निपुणाभोगेन अवगन्तव्यम् । कथमित्याह न्यायशास्त्राऽविरोधत:-युक्तिशास्त्रयोरविघटनेन । अयमत्र भावः निश्चयनयमतेन-दैवपुरुषकारौ स्वकार्यकाले स्वप्रधानावेव वर्तेते इत्येवमनयोस्तुल्यतेति । व्यवहारनयमतेन त्वेतौ परस्पराश्रयौ पर्यायेण प्राप्तप्रधानगुणभावौ बाध्यबाधकभावापन्नौ वर्तेते इति तुल्यत्वमनयोर्भावनीयमिति ॥३३८॥ अथ प्रस्तुते योजयति
एवं पुरुषकारेण, ग्रन्थिभेदोऽपि सङ्गतः । . तदूर्ध्वं बाध्यते दैवं, प्रायोऽयं तु विजृम्भते ॥३३९॥
· एवं-चरमावर्ते पुरुषकाराधिक्याद्धेतोः पुरुषकारेण-प्रसिद्धरूपेण 'ग्रन्थिभेदोऽपि' किं पुनः सामान्येन दैवबाधेत्यपिशब्दार्थः, सङ्गतो-घटमानः तदूर्ध्वं ग्रन्थिभेदोज़ बाध्यते-प्रतिहतशक्तिः क्रियते दैवम् । प्रायो-बाहुल्येन 'अयं तु'-पुरुषकारः विजृम्भते समुच्छलति ॥३३९ ॥
तस्मिंश्च विजृम्भिते यत्स्यात्तद्दर्शयति - - अस्यौचित्यानुसारित्वात्, प्रवृत्ति सती भवेत् । - सत्प्रवृत्तिश्च नियमाद, ध्रुवः कर्मक्षयो यतः ॥३४०॥
अस्य-भिन्नग्रन्थे: औचित्यानुसारित्वात्-सर्वार्थेषूचितवृत्तिप्रधानत्वात् प्रवृत्तिधर्मार्थादिगोचरा न-नैव असती-अशोभना भवेत्-जायेत । सत्प्रवृत्तिश्चसुन्दरचेष्टारूपा, नियमान्निश्चयेन । अत्र हेतुः ध्रुवो-निश्चित: कर्मक्षयः
१. गोचरः न-C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org