________________
२४८
योगबिन्दु सूत्र : ३३४-३३५-३३६-३३७ नन्विदमपि कथं सिध्यति यथा दानादौ भावभेदस्ततोऽपि च फलभेद इत्याशंक्याह
शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक् ॥
एवं किमत्र सिद्धं स्यात्, तत एवास्त्वतो ह्यदः ॥३३५॥ _ 'शुभात्ततस्तु' शुभत एव कर्मणः प्राङ्नानानिमित्तोपार्जितात् असौ दानादिकाले भिन्नरूपतया प्रवृत्तः भावः-परिणामः 'हन्त' इति प्राग्वत् । अयं च फलभेदः 'तत्स्वभावभाक्' तं-'भावभेदोत्पत्तिरूपं स्वभावं-स्वरूपं भजते यः स तथा । अथापरः पृच्छति-'एवं' परस्परापेक्षायां किं-इष्टं अत्र-विचारे सिद्धं-निष्पन्नं स्यात्-भवेत् । उच्यते 'तत एव'-कर्मणः शुभाशुभरूपात्सकाशात् अस्तु-भवतु भावः । तथा 'अतो हि'-अत एव भावत अदः-कर्मास्तु, तथाविधकर्मणः सकाशात्पुरुषकारस्तस्माच्च कर्मेति स्थितम् ॥३३५॥ अथोपसंहर्तुमाह
तत्त्वं पुनर्द्वयस्यापि, तत्स्वभावत्वसंस्थितौ ।
भवत्येवमिदं न्यायात् तत्प्राधान्याद्यपेक्षया ॥३३६॥ तत्त्वं-बाध्य बाधकलक्षणं स्वरूपं पुनर्रयस्यापि-दैवपुरुषकारलक्षणस्य, न पुनरेकैकस्येत्यपिशब्दार्थः, तत्स्वभावत्वसंस्थितौ-तत्स्वाभाव्यनियमे बाध्यबाधकस्वभाव लक्षणे स्थिते सति भवत्येवमुक्तनीत्या इदं-प्रागुक्तम्, कथमित्याह न्यायात्-युक्तेः । सः (=बाध्यबाधकभावः) अपि कथमित्याह तत्प्राधान्याद्यपेक्षया-तयोर्दैवपुरुषकारयोः कदाचित्प्राधान्यं, आदिशब्दादुपसर्जनभावं चापेक्ष्येति ॥३३६॥
एवं च चरमावर्ते, परमार्थेन बाध्यते ।
दैवं पुरुषकारेण, प्रायशो व्यत्ययोऽन्यदा ॥३३७॥ एवं च-दैवपुरुषकारयोर्बाध्यबाधकभावे सिद्धे सति चरमावर्तेपश्चिमपुद्गलपरावर्तरूपे परमार्थेन-कृत्स्नकर्मक्षयलक्षणमोक्षासनभावरूपेण १. भावभेदापेक्षोत्पत्तिरूपं-A.; २. अथ पर:-AB.C.; ३. बाधकत्वलक्षणं-A.; ४. लक्षणस्थिते-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org