________________
योगबिन्दु सूत्र : ३६५-३६६-३६७-३६८
२५७
क्षातन्तुस्तद्व्यवच्छेदः फलमस्या:- समताया: 'प्रचक्षते ' विचक्षणा इति ॥३६५ ॥ अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा ।
अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥ ३६६ ॥
इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव । तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात् परिस्पन्दरूपाश्च शरीरादिति । ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोधः तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण - पुनर्भवनपरिहाररूपेण स तु स पुनः । तत्संक्षयोवृत्तिसंक्षयो मत इति ॥ ३६६ ॥ अथैतत्फलम्
अतोऽपि केवलज्ञानं, शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा, सदानन्दविधायिनी ॥ ३६७॥
अतोऽप्यत एव वृत्तिसंक्षयात् 'केवलं सकलद्रव्यपर्यायगोचरत्वात्परिपूर्णज्ञानमुपयोगविशेषः ततः, शैलेशीसम्परिग्रहः- शीलं सर्वसंवररूपं तस्येशोऽधिपतिः शीलेशः, तस्येयमवस्था शैलेशी, तस्याः सम्परिग्रहः - स्वीकारः । ततोऽपि मोक्षप्राप्तिः - निर्वाणलाभः अनाबाधा - सर्वशरीरमानसव्यथाविकला । सदासर्वकालं आनन्दविधायिनी - परमानन्दरूपत्वात्तस्याः । यदत्रास्या विशेषणद्वयोपादानं तत्परपरिकल्पितमोक्षप्राप्तिव्यवच्छेदार्थम् । तथाहि काणादा: 'सुखदुःखव्यवच्छेदरूपा मुक्ति:' इति प्रतिपन्नाः, ततोऽनाबाधत्वेऽपि नानन्दरूपता स्यादित्युभयग्रहणं कृतम् ॥ ३६७॥
अथ प्रागुक्ततात्त्विकेतरयोगोपक्षेपार्थमाह
तात्त्विको तात्त्विकश्चायमिति यच्चोदितं पुरा । तस्येदानीं यथायोगं, योजनाऽत्राभिधीयते ॥ ३६८ ॥ 'तात्त्विकोऽतात्त्विकश्चायं योग' इत्येवम् यच्च यत्पुनः उदितं पुराग्रन्थारम्भे ( श्लो. ३२) तस्योदितस्य इदानीं - सम्प्रति यथायोगं - यथाघटनं योजना - ऽर्थसंयोजनरूपा अत्र - इहावसरे अभिधीयते - प्रोच्यत इति ॥ ३६८ ॥ तत्र
१. केवलं सकलं - सकल - A. ;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org