________________
२५८
योगबिन्दु सूत्र : ३६९-३७०-३७१-३७२ अपुनर्बन्धकस्यायं,व्यवहारेण तात्त्विकः ।
अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥३६९॥ अपुनर्बन्धकस्योपलक्षणत्वात्सम्यग्दृष्टेश्च अयं योगः व्यवहारेणकारणस्यापि कार्यत्वोपचाररूपेण तात्त्विकः, कारणस्यापि कथंचित्कार्यत्वादिति । किंरूप: सन्नित्याह अध्यात्मभावनारूप:-अध्यात्मरूपो भावनारूपश्च । निश्चयेननिश्चयनयमतेनोपचारपरिहाररूपेण उत्तरस्य तु-अपुनर्बन्धक-सम्यग्दृष्ट्यपेक्षया चारित्रिण इति ॥३६९॥
सकृदावर्तनादीनामतात्त्विक उदाहृतः ।
प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥३७०॥ सकृदेकवारमावर्तन्त उत्कृष्टां स्थिति बनन्ति ये ते सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः, तेषाम् अतात्त्विको-व्यवहारतो निश्चयतश्वाऽतत्त्वरूपः उदाहतो-ऽध्यात्मभावनारूपो योगः, अद्याप्यशुद्धपरिणामत्वात्तेषामिति । कीदृशोऽसावित्याह 'प्रत्यपायफलप्राय:'-प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्येति समासः । कुत इत्याह 'तथावेषादिमात्रतः' तत्प्रकारं भावसाराध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमात्रं नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु, तस्मात् । तत्र हि वेषादिमात्रमेव स्यान पुनस्तेषां काचिच्छ्रद्धालुतेति ॥३७० ॥
चारित्रिणस्तु विज्ञेयः, शुद्धयपेक्षो यथोत्तरम् ।
ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु ॥३७१॥ चारित्रिणः पुन:, विज्ञेयः शुद्ध्यपेक्षो यथोत्तरमुत्तरोत्तरां शुद्धिमपेक्ष्य किमित्याह ध्यानादिरूपः-ध्यानसमतावृत्तिसंक्षयलक्षणो योगः नियमात्अवश्यंतया, न त्वन्यस्य 'तथा' इति समुच्चये । तात्त्विक एव तु तत्त्वरूप एवेति ॥३७१ ॥ अथ सानुबन्धेतराभिव्यक्त्यर्थमाह
अस्यैव त्वनपायस्य, सानुबन्धस्तथा स्मृतः ।
यथोदितक्रमेणैव, सापायस्य तथापरः ॥३७२॥ अस्यैव तु-पूर्वोक्तयोगभाजो जीवस्य पुन: अनपायस्य-योगबाधकक्लि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org