________________
योगबिन्दु सूत्र : ३७२-३७३-३७४-३७५
२५९
ष्टकर्मरहितस्य 'सानुबन्धस्तथा' तत्प्रकारः सन् स्मृतः शास्त्रकारैः । यथोदितक्रमेणैवाध्यात्मादिरूपेणैव सापायस्या - ऽनपायविलक्षणस्य ' तथा ' इति अपरोऽसानुबन्ध इति ॥ ३७२ ॥ अथापायमेव व्याचष्टे
अपायमाहुः कर्मैव, निरपायाः पुरातनम् । पापाशयकरं चित्रं, निरुपक्रमसंज्ञकम् ॥३७३ ॥
अपायमाहुः कर्मैव- नापरं किंचित्, 'निरपाया' उपरतसकलक्लिष्टादृष्टा तीर्थकरादयः पुरातनं-प्राक्कालोपार्जितं पापाशयकरं - मोक्षपथप्रतिकूलचित्तवृत्तिहेतु: चित्रं - नानारूपं 'निरुपक्रमसंज्ञकं' उपक्रमणमुपक्रमः सर्वत उच्छेदः, ततो वास्तवविपाकसामर्थ्यहरणं, ततो विशिष्टानुष्ठानमिष्टयोगमपि, निर्गतमुपक्रमान्निरुपक्रमं तत्संज्ञा नाम यस्य तत्तथा ॥ ३७३ ॥ अपायमेवाधिकृत्य परमतसंवादमाह -
कण्टकज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि ॥ ३७४ ॥
'कण्टकज्वरमोहैस्तु' कण्टकेन ज्वरेण मोहेन च पुनः समस्तुल्यः विघ्नः - प्रत्यूहो जघन्यमध्यमोत्कृष्टभेदभिन्नः प्रकीर्तितो निरूपितः मोक्षमार्गप्रवृत्तानां सम्यग्दर्शनाद्याराधनावहितात्मनाम्, 'अत एव' योगनिरनुबन्धत्वादेव हेतोः अपरैरपि योगिभिर्न केवलमस्माभिरित्यपिशब्दार्थः । यथा हि केषांचित्पथिकानां क्वचित्पाटलिपुत्रादौ गन्तुं प्रवृत्तानां कण्टकज्वरदिग्मोहैरभिभूतानां यथाक्रमं स्तोकबहुबहुतरकालं गमनभङ्गहेतुर्विघ्नः सम्पद्यते, एवं योगिनामपि सिद्धिपथप्रस्थितानां तथाविधकर्मोदयात्त्रिप्रकारोऽन्तरायः समुपजायत इति ॥ ३७४ ॥ अथ सास्रवानास्रवौ योगावधिकृत्याह
अस्यैव सात्रवः प्रोक्तो, बहुजन्मान्तरावहः I पूर्वव्यावर्णितन्यायादेकजन्मा त्वनास्त्रवः ॥ ३७५ ॥
अस्यैव-सापायस्य योगिनः सास्रवो- वक्ष्यमाणास्रवयुक्तो योगः प्रोक्तो बहुजन्मान्तरावहो - देवमनुष्याद्यनेकजन्मविशेषहेतुः पूर्वव्यावर्णितन्यायान्निरुपक्रमकर्मणः पापाशयकरस्यावश्यमेव वेदनीयभावरूपात् । एकजन्मा त्वेकमेव वर्तमानं जन्म यत्र स तथा पुनर् अनास्रव इति ॥३७५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org