SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४५ योगबिन्दु सूत्र : ३२५-३२६-३२७-३२८ किमित्याह कर्म यत्पौर्वदेहिकं-'पूर्वदेहभवं, स्मृतः-अनुध्यात: पुरुषकारस्तुपुरुषकारः पुनः क्रियते-व्यवहारिभिः यदिहापरं-तथाविधे कर्मणि सत्यपि वाणीज्यराजसेवादि ॥३५५॥ एवं च नेदमात्मक्रियाऽभावे, यतः स्वफलसाधकम् । - अतः पूर्वोक्तमेवेह, लक्षणं तात्त्विकं तयोः ॥३२६॥ न-नैव इदं-कर्म 'आत्मक्रियाभावे'-जीवव्यापारविरहे यतो-यस्मात् 'स्वफलसाधकं'-निजफलकारि क्वचिदुपलभ्यते । अतो-ऽस्माद्धेतोः 'पूर्वोक्तमेव' यत्परस्परोपष्टम्भवत् प्रागुपन्यस्तम् इह-प्रक्रमे लक्षणं स्वरूपम् । तात्त्विकं-सद्भूतम् तयोर्दैवपुरुषकारयोः ॥३२६ ॥ अत्रापि विशेषमाह दैवं पुरुषकारेण, दुर्बलं युपहन्यते । दैवेन चैषोऽपीत्येतनान्यथा चोपपद्यते ॥३२७॥ दैवं पुरुषकारेण-'वीर्यातिरेकलक्षणेन दुर्बलं-तथाविधबलविकलम् 'हि:'स्फुटम् 'उपहन्यते'-स्वफलमुपदधानं प्रतिस्खल्यते । उपदेशपदप्रसिद्धज्ञानगर्भमहामन्त्रिपुरुषकारेणेव स्वकुटुम्बवधाढौककं कर्मेति । दैवेन च-दैवेन पुनर्बलवता 'एषोपि' पुरुषकारोप्युपहन्यते किं पुन: पुरुषकारेण दैवमित्यपिशब्दार्थः, द्वारकावतीदाहप्रवृत्तौ वासुदेवबलदेवपुरुषकार इव । विपर्यये बाधामाह 'इत्येतत्' पूर्वोक्तं परस्परोपहतिलक्षणं वस्तु न-नैव अन्यथा असमबलतायां सत्यां उपपद्यते घटत इति ॥३२७॥ .. एवं परस्परोपघात्योपघातकभावे यत्सिद्धं तदाह कर्मणा कर्ममात्रस्य, नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु, तस्यैतदपि युज्यते ॥३२८॥ . कर्मणा-केवलेनैव कर्ममात्रस्य-केवलस्यैव कर्मण: नोपघातादि उपधातानुग्रहौ तत्त्वतो-ऽनुपचारेण । न हि केवलं कर्म 'किञ्चिदनुग्रहीतुं वा क्षममसहायत्वात् । तर्हि कथं स्यादित्याह-स्वव्यापारगतत्वे तु-जीवक्रियाप्रतिबद्धत्वे पुनः तस्य-कर्मणः 'एतदपि'-परस्परोपघात्यादि युज्यते ॥३२८॥ १. पुरुषवीर्य-A: २. कञ्चिद-A. 'क्वचिद्' इति मुद्रितप्रतौ; ३. परस्योपघात्यादि A; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy