________________
२४६ योगबिन्दु सूत्र : ३२८-३२९-३३०-३३१-३३२ अथ प्रस्तुतमेवाधिकृत्याह
उभयोस्तत्स्वभावत्वे, तत्तत्कालाद्यपेक्षया । .
बाध्यबाधकभावः स्यात्, सम्यग्न्यायाऽविरोधतः ॥३२९॥ उभयोर्दैवपुरुषकारयोः तत्स्वभावत्वे-परस्परं बाध्यबाधकस्वभावत्वे 'तत्तत्कालाद्यपेक्षया-' तानि तानि कालादीनि सहकारिकारणान्यपेक्ष्य किमित्याह 'बाध्य-बाधकभाव:-' उपघात्योपघातकभावः, 'स्यात्सम्यग्न्यायाविरोधत:'सम्यग्युक्तेरविघटनेन ॥३२९॥ अत्रैवाभ्युच्चयमाह
तथा च तत्स्वभावत्वनियमात्कर्तृकर्मणोः ।
फलभावोऽन्यथा तु स्यान काङ्कटुकपक्तिवत् ॥३३०॥ तथा च-एवं च सति तत्स्वभावत्वनियमात्-तत्स्वभावताप्रतिनियतभावात् कर्तृकर्मणो:-बाधकबाध्यादिलक्षणयोः फलभाव:-बाधादिसिद्धिरूपः, विपक्षे बाधामाह-अन्यथा तु तत्स्वभावत्वनियमाभावात्पुनः ‘स्यान काङ्कटुकपक्तिवत्'पाकानर्हेषु मुद्गादिषु पक्तिरिवेति ॥३३०॥ , अथानयोरेव प्रकारान्तरेण बाध्यबाधकभावमधिकृत्याह
कर्माऽनियतभावं तु, यत्स्याच्चित्रं फलं प्रति ।
तद्वाध्यमत्र दादिप्रतिमायोग्यतासमम् ॥३३१॥ कर्मानियतभावं त्वनियतपरिणाममेव यत्स्याच्चित्रं-नानारूपं, फलंसुख-दुःखादिसमर्पणरूपं प्रति-समाश्रित्य, तद्बाध्यं-निवर्तनीयं पुरुषकारेण अत्र बाध्य-बाधकचिन्तायां कीदृशमित्याह दार्वादेर्दलविशेषस्य या प्रतिमायोग्यता तत्समम् ॥३३१॥ योग्यतामेवाधिकृत्याह
नियमात्प्रतिमा नात्र, न चातोऽयोग्यतैव हि ।
तल्लक्षणनियोगेन, प्रतिमेवास्य बाधकः ॥३३२॥ नियमादवश्यतया प्रतिमा-'दैवतादिप्रतिबिम्बरूपा न-नैव अत्र-दादौ योग्यतायां सत्यामपि । न चातः प्रतिमाया अभवनादयोग्यतैव हि । कथमित्याह 'तल्लक्षणनियोगेन'-अयोग्यतालक्षणाभावेन तथा लोकरूढेः । ततः प्रतिमेव
१. देवतादि-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org