________________
योगबिन्दु सूत्र : २३९-२४०-२४१-२४२ हेतुत्वात्, ततस्तत्राप्यागमाधीने व्यवहारे किं पुनरितररूप इत्यपिशब्दार्थः, हाठिक:-स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेन बलात्कारचारी 'यस्तु' यः पुनर्योगी 'हन्त' इति सन्निहितसभ्यामन्त्रणं, (अज्ञानां)स शेखरः-शिरोमणिर्वर्तते, अनुपायप्रवृत्तत्वात्तस्य ॥२३९॥ किं च
तत्कारी स्यात्स नियमात् तद्वेषी चेति यो जडः । - आगमार्थे तमुल्लंघ्य, तत एव प्रवर्तते ॥२४०॥
तत्कारी-तत्करणशील:, स्याद्-भवेत्, स नियमाद्-अवश्यंभावेन, तवेषी च-स्वयमेव क्रियमाणवस्तुद्वेषवाँश्च इत्येतद्रूपः सम्पद्यते यः कश्चित् जडोमन्दः आगमार्थे-आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे तमागममुल्लंघ्यअतिक्रम्य तत एवागमादेव, प्रवर्तते आगमनिरूपितविधिनिरपेक्षतयाऽऽगमार्थमनुतिष्ठन्नपिनतद्भक्त: किंतु तद्विष्ट एव, द्वेषमन्तरेण तदुल्लङ्घनाभावादिति भावः ॥२४०॥ एतदेव व्यतिरेकतो भावयति
न च सद्योगभव्यस्य, वृत्तिरेवंविधापि हि ।
न जात्वजात्यधर्मान्यजात्यः सन् भजते शिखी ॥२४१॥ नच-नैव सद्योगभव्यस्य-परिशुद्धयोगयोग्यस्य जन्तोः वृत्तिः-समाचाररूपा एवंविधापि हि-तत्कारित्वतद्द्वेषित्वलक्षणा किं पुनस्तद्वेषित्वलक्षणैवेत्यपिहिशब्दार्थः । एतदेव प्रतिवस्तूपमया भावयन्नाह न-नैव जातु-कदाचित् अजात्यधर्मान्-कुजातमयूरचेष्टितरूपान् यत्-यस्मात्, जात्यः-सर्वोपाधिविशुद्धः, सन्-भवन्, भजते-सेवते शिखी-मयूरः ॥२४१ ।। एतदेव समर्थयमान आह
एतस्य गर्भयोगेऽपि, मातृणां श्रूयते परः ।
औचित्यारम्भनिष्पत्तौ, जनश्लाघ्यो महोदयः ॥२४२॥ एतस्य-सद्योगभव्यस्य तीर्थकरादेर्जीवस्य गर्भयोगेऽपि'किं पुनरुतरकाल इत्यपिशब्दार्थ: मातृणां-जनयितृणाम् । श्रूयते-शास्त्रेषु पर:-प्रकृष्टः औचित्यारम्भनिष्पत्तौ-समुचितानुष्ठाननिवृत्तौ विषये जनश्लाघ्यो-लोकप्रशंसनीयः महोदयः-प्रशस्तमाहात्म्यलाभलक्षण: । 'तथा चैवं पठ्यते-'"जणणी सव्वत्थ १. तथा च एवं पठ्यते-AB.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org