SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१८ योगबिन्दु सूत्र : २४२-२४३-२४४-२४५ विणिच्छएसु, सुमइत्ति तेण 'सुमइजिणे ।" तथा "गब्भगए जं जणणी, जाय सुधम्मत्ति तेण धम्मजिणो ।" तथा "जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा ।" (आ.नि.) इत्यादि ॥२४२॥ यत एवम् जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । । सदोजोरलतुल्याश्च, लोकाभ्युदयहेतवः ॥२४३॥ 'जात्यकाञ्चनतुल्या' अकृत्रिमसुवर्णतुल्या अविसंवादिस्वभावा इत्यर्थः, तत्तस्मात्कारणात्, तथा प्रतिपच्चन्द्रसनिभा:'-शुक्लपक्षप्रतिपच्चन्द्रमण्डलसमाः प्रवर्धमानशुद्धियोग्या इत्यर्थः-'सदोजोरत्नतुल्याश्च'-सत्सुन्दरमोजस्तेजो यथा स्यात् तथा, तच्च तद्रत्नंच चिन्तामण्यादि तत्तुल्या: । अत एव लोकाभ्युदयहेतवो'जगत्त्रयमाहात्म्यलाभनिमित्तभूताः ॥२४३॥ इत्थं गर्भावस्थामधिकृत्योक्तं, साम्प्रतं तदन्यावस्थाश्रयेणाह औचित्यारम्भिणोऽक्षुद्राः, प्रेक्षावन्तः शुभाशयाः । अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः ॥२४४॥ 'औचित्यारम्भिणः'-सर्वार्थेषु योग्यारम्भभाजः अक्षुद्राः-गम्भीराशया: प्रेक्षावन्तो-ऽतिनिपुणबुद्धिभाजः शुभाशया:-शुभपरिणामाः अवन्ध्यचेष्टा: अनिष्फलव्यापारा: कालज्ञाः-प्रस्तावविदः, किमित्याह 'योगधर्माधिकारिणः' योगधर्मयोग्या अधिकारवन्तो वर्तन्त इति ॥२४४॥ अथ शिखिदृष्टान्तमधिकृत्याह यश्चात्र शिखिदृष्टान्तः, शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां, सच्छक्त्यादिप्रसाधनः ॥२४५॥ __यश्च-यः पुनः अत्र-योगधर्माधिकारचिन्तायाम् 'शिखिदृष्टान्तः'जात्यशिखिनिदर्शनरूपः शास्त्रे-योगविषय एव प्रोक्त:-प्रज्ञप्तः महात्मभि:योगशास्त्रचिन्तकैः । स-शिखिदृष्टान्तः 'तदण्डरसादीनां'-जात्यशिख्यण्डके रसस्य, आदिशब्दाच्चञ्चुचरणाद्यवयवानां च 'सच्छक्त्यादिप्रसाधनः' सच्छक्ते:सुसामर्थ्यस्य, आदिशब्दात्तत्फलस्य च प्रसाधन:-प्रकाशकः । न ह्यण्डकावस्थायां १. सुमइजिणो-AB.C.; २. 'अधिकारवन्तो' इति-AB.C.; प्रतिषु नास्ति; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy