________________
योगबिन्दु सूत्र : २४५-२४६-२४७-२४८-२४९ २१९ रसादिषु सर्वथाऽसन्तो जात्यशिखिधर्मा उत्तरकालमपि भवितुमर्हन्ति, सर्वथाऽसतः कस्यचिदुत्पादाभावात्, एवं धर्माधिकारिणोऽपि प्राणिनो गर्भाद्यवस्थास्वप्युत्तरकालाभिव्यज्यमानगुणसंदोहबीजभाजो वर्तन्त इति ॥२४५ ॥
प्रवृत्तिरपि चैतेषां, धैर्यात् सर्वत्र वस्तुनि । - अपायपरिहारेण, दीर्घालोचनसङ्गता ॥२४६॥ प्रवृत्तिश्चेष्टा 'अपि च' इत्यभ्युच्चये । एतेषां-योगधर्माधिकारिणां धैर्यात्परैरक्षोभ्यभावलक्षणात् सर्वत्र वस्तुनि-धर्मार्थादौ, कीदृशीत्याह'अपायपरिहरणेन' -भाव्यपायपरिहरणेन, 'दीर्घालोचनसङ्गता'-कार्यपरिणामा'लोचनवती ॥२४६ ॥ तथा
तत्प्रणेतृसमाक्रान्तचित्तरत्नविभूषणा ।
साध्यसिद्धावनौत्सुक्यगाम्भीर्यस्तिमितानना ॥२४७॥ 'तस्याः'-प्रवृत्तेर्यः 'प्रणेता'-प्रज्ञापकस्तीर्थकरादिस्तेन प्रतिक्षणं स्मृतिपथव्यवस्थितेन 'समाक्रान्तं'-व्याप्तं यच्चित्तरत्नं तदेव विभूषणमलङ्कारो यस्याः प्रवृत्तेः सा तथा । तथा साध्यसिद्धौ'-धर्मार्थादिप्रयोजननिष्पत्तौ अनौत्सुक्येनाऽत्वरारूपेण गाम्भीर्येण'-चाऽलक्षितविकाररूपेण स्तिमितं प्रसन्नमाननं-मुखं यस्यां सा तथा ॥२४७ ॥ अत एवाह
फलवद्रुमसदीजप्ररोहसदृशं तथा ।
साध्वनुष्ठानमित्युक्तं, सानुबन्धं महर्षिभिः ॥२४८॥ __ . 'फलवतो'-फलप्राग्भारभाजो 'द्रुमस्य'-न्यग्रोधादेः सद्-अवन्ध्यं यद्बीजं तस्य यः प्ररोहो-ऽङ्कुरोद्भेदरूपस्तेन सदृशं-समं यत्तत्तथा । 'तथा' इति वक्तव्यान्तरसमुच्चये । एतेषां योगाधिकारिणां साधु-सुन्दरम्, 'अनुष्ठानं'यमनियमादिरूपम्, इत्यनेन प्रकारेण उक्तं शास्त्रेषु सानुबन्धम्-उत्तरोत्तरानुबन्धवत् महर्षिभिः-परममुनिभिः, शुद्धाधिकारिसमारब्धत्वात्तस्य ॥२४८ ॥ अत एव
अन्तर्विवेकसम्भूतं, शान्तोदात्तमविप्लुतम् ।
नाऽग्रोद्भवलताप्रायं, बहिश्चेष्टाधिमुक्तिकम् ॥२४९॥ १. ॥२४५॥ ततः -A: २. लोचनावती-AC; ३. एषां योगा-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org