________________
• २२०
योगबिन्दु सूत्र : २४९-२५०-२५१ अन्तर्विवेकसम्भूतं-अन्तर्विवेकेन तत्त्वसंवेदननाम्ना सम्भूतं-प्रवृत्तम् (शान्तोदात्तं) शान्तोदात्तपुरुषारब्धत्वात्, अत एवाविप्लुतं-सर्वथा विप्लवरहितम् । व्यवच्छेद्यमाह न-नैव अग्रोद्भवलताप्रायमग्राद् वृक्षप्रान्तादुद्भवो यस्याः सा चासौ लता च तत्प्रायम्, सा हि लताग्रोद्भवत्वेन न लतान्तरमनुबधुं क्षमा, इदं चानुष्ठानमुत्तरोत्तरानुबन्धप्रधानमिति, अत: उक्तं 'नाग्रोद्भवलताप्रायं' इति । तथा बहिश्चेष्टायां चैत्यवन्दनादिरूपायामधिमुक्तिः श्रद्धा यत्र तत्तथा ॥२४९ ॥
इत्थं विषयस्वरूपानुबन्धशुद्धिप्रधानमनुष्ठानत्रयमभिधाय साम्प्रतं त्रयस्याप्यवस्थाभेदेन संमतत्वमाविश्चिकीर्षुराह
इष्यते चैतदप्यत्र, विषयोपाधि सङ्गतम् । . निदर्शितमिदं तावत्, पूर्वमत्रैव लेशतः ॥२५०॥ . इष्यते-मन्यते मतिमद्भिः, च:-समुच्चये, 'एतदपि' प्रागुक्तम् अत्र-योगचिन्तायां 'विषयोपाधि'-विषयशुद्धमनुष्ठानं, किं पुनः स्वरूपशुद्धानुबन्धशुद्धे इत्यपिशब्दार्थः कीदृशमित्याह ‘सङ्गतं'-युक्तमेव, 'निदर्शितं'-निरूपितं, इदंसङ्गतत्वम्, तावच्छब्दः क्रमार्थः पूर्व-प्राक्, 'अत्रैव'-शास्त्रे, 'लेशतः' संक्षेपेण "मुक्ताविच्छाऽपि यच्छ्लाघ्या, तमःक्षयकरी मता" (श्लो. २१६) इत्यादिना ग्रन्थेन । विस्तरतस्तु विशेषग्रन्थादवसेयमिति ॥२५० ॥ अथ प्रस्तुतमनुष्ठानं यस्य भवति तमधिकृत्याह
अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते ।
तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ॥२५१॥ अपुनर्बन्धकस्योक्तरूपस्य एवमुक्तरूपेण सम्यग्नीत्या'-'शुद्धियुक्तरूपया 'उपपद्यते'- घटते किमित्याह 'तत्तत्तन्त्रोक्तं'-कापिलसौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं'-समस्तं कुत इत्याह अवस्थाभेदसंश्रयात्'अपुनर्बन्धकस्यानेकस्वरूपाङ्गीकरणात् ।अनेकस्वरूपाभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरतीति ॥२५१ ॥
अथापुनर्बन्धकोत्तरं यद्भवति तदर्शयति
१. शुद्धयुक्तिरूपया-B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org