________________
२२१
योगबिन्दु सूत्र : २५२-२५३-२५४-२५५ स्वतन्त्रनीतितस्त्वेव, ग्रन्थिभेदे तथा सति ।
सम्यग्दृष्टिर्भवत्युच्चैः, प्रशमादिगुणान्वितः ॥२५२॥ 'स्वतन्त्रनीतितस्त्वेव'-जैनशास्त्रनीतेरेव न पुनस्तन्त्रान्तराभिप्रायेणापि 'ग्रन्थिभेदे'-रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे 'तथा'-यथाप्रवृत्त्यादिकरणप्रकारेण 'सति'-विद्यमाने किमित्याह 'सम्यग्दृष्टिः'-शुद्धसम्यक्त्वधरः, भवति-सम्पद्यते । कीदृश इत्याह 'उच्चैः'-अत्यर्थं प्रागवस्थातः सकाशात्, 'प्रशमादिगुणान्वितः'-उपशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तियुक्तः ॥२५२॥ अथास्य लिङ्गान्याह
शुश्रूषा धर्मरागश्च, गुरुदेवादिपूजनम् ।
यथाशक्ति विनिर्दिष्टं, लिङ्गमस्य महात्मभिः ॥२५३॥ 'शुश्रूषा'-सद्धर्मशास्त्रविषया धर्मरागश्च'-चारित्रधर्मानुरागरूपः 'गुरुदेवादिपूजनं '-धर्माचार्यजिनसाधर्मिकादिसमभ्यर्चनम् 'यथाशक्ति'-स्वसाम
•नुरूपं विनिर्दिष्टम् लिङ्ग'-चिह्नम् अस्य'-सम्यग्दृष्टेर्जीवस्य 'महात्मभिः'शास्त्रकारैरिति ॥२५३॥ अथ लिङ्गमेव भावयति
न किंनरादिगेयादौ, शुश्रूषा भोगिनस्तथा । . यथा जिनोक्तावस्येति, हेतुसामर्थ्यभेदतः ॥२५४॥
न किंनरादिगेयादौ-किंनरादीनां गायकविशेषाणां यद्गेयादि गीतवर्णपरिवर्ताभ्यासकथाकथनादि श्रवणेन्द्रियाक्षेपकारि तत्र 'शुश्रूषा' श्रोतुमिच्छा 'भोगिनः' पुरुषस्य यूनो वैदग्ध्यवतः कान्तायुक्तस्यातिशयकामिनश्च तथा-तेन प्रकारेण 'यथा ज़िनोक्तौ' जिनशासने 'अस्य'-सम्यग्दृष्टेः 'इति' पादसमाप्तौ, कुत इत्याह 'हेतुसामर्थ्यभेदत:-' किंनरादिगेयादिशुश्रूषाहेतोः सकाशाजिनोक्तिशुश्रूषाया हेतोः सामर्थ्यवैशिष्ट्यात् ॥२५४॥ एतदेव भावयति
तुच्छंच तुच्छनिलया( ? य)प्रतिबद्धं च तद्यतः ।
गेयं, जिनोक्तिस्त्रैलोक्य-'भोगसंसिद्धिसङ्गता ॥२५५॥ 'तुच्छंच'-क्षणिकश्रवणेन्द्रियसुखमात्रकारित्वादल्पम् तुच्छनिलयाप्रतिबद्धं १. भोगसत्सिद्धि-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org