________________
- २२२
योगबिन्दु सूत्र : २५५-२५६-२५७-२५८ य(च)'-शुक्रशोणितादिमलनिलयललनावर्णनप्रवृत्तत्त्वात् तद् 'यतो' यस्माद्धेतो: 'गेयं'-किंनरादिकृतम्, "जिनोक्तिः'-जिनशासनं पुन: 'त्रैलोक्य भोगसंसिद्धिसङ्गता'-त्रैलोक्यभोगेन शक्रचक्रधरादिपदलक्षणेन संसिद्धया च कर्मक्षयलक्षणया सङ्गता युक्ता वर्तत इति ॥२५५॥
हेतुभेदो महानेवमनयोर्यद्वयवस्थितः ।
चरमात्तद्युज्यतेऽत्यन्तं, भावातिशययोगतः ॥२५६॥ "हेतुभेदः'-क(का )रणयोर्विशेषो 'महान्' एवमुक्तप्रकारेण अनयो:'"प्रस्तुतशुश्रूषयोः यद्यस्मात् 'व्यवस्थितः'-प्रतिष्ठितः चरमाद् द्वितीयात्, तत्तस्माद्धेतो: 'युज्यते'-घटते जिनोक्तौ शुश्रूषा, अत्यन्तं-अतीव, प्रथमशुश्रूषायाः सकाशाद्, 'भावातिशययोगतः'-उपादेयतारूपभावप्रकर्षात् ॥२५६ ॥ अथ द्वितीयलिङ्गभावनार्थमाह
धर्मरागोऽधिकोऽस्यैवं, भोगिनः स्त्र्यादिरागतः ।
भावतः कर्मसामर्थ्यात्, प्रवृत्तिस्त्वन्यथापि हि ।।२५७॥ धर्मरागश्चारित्रधर्मस्पृहारूप: अधिक:-प्रकर्षवान् अस्य-सम्यग्दृष्टेः एवंशुश्रूषावत् भोगिनः-पुरुषस्य, यः स्त्र्यादिष्विन्द्रियविषयेषु रागोऽभिलाषस्तस्मात्सकाशात् भावतोऽन्तःकरणपरिणत्या न पुनर्बहिर्वृत्त्यापि, यतः कर्मसामर्थ्याच्चारित्रमोहप्राबल्यात् प्रवृत्तिस्तु-व्यापारः पुनः 'अन्यथापि हि'-चारित्रधर्मप्रातिकूल्येन, अनुकूलतया भवत्येवेत्यपिहिशब्दार्थः ॥२५७॥ नन्वन्यथापि प्रवृत्तौ कथं भावतो धर्मरागोऽस्येत्याशंक्याह
न चैवं तत्र नो राग इति युक्त्योपपद्यते ।
हविःपूर्णप्रियो विप्रो, भुक्ते यत्पूयिकाद्यपि ॥२५८॥ न च-न पुनः एवमन्यथापि प्रवृत्तौ तत्र-चारित्रधर्मे, 'नो राग:'-किं तु राग एव इत्येतत् युक्त्योपपद्यते-घटते । एनामेव प्रतिवस्तूपमया प्राह'हवि:पूर्णा'-घृतपूर्णाः "प्रिया:'-वल्लभा यस्य स तथा । 'विप्रो'-ब्राह्मणः 'भुङ्क्ते'-जेमति, यद्यस्मात् तथाविधविषमप्रघट्टकवशात् 'पूयिकाद्यपि'-पूयं
१. भोगसत्सिद्धि-B.C.; २. धराधिपल-A; ३. सत्सिद्ध्या-B.C.; ४. प्रकृत-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org