________________
योगबिन्दु सूत्र : २५८-२५९-२५९-२५९-२६०-२६१ २२३ नाम कुथितो रसस्तदस्यास्तीति पूयिकं, आदिशब्दाद्रुक्षं पर्युषितं च वल्लचनकादि, किं पुनरितररूपं घृतपूर्णादिरित्यपिशब्दार्थः । यदत्र विप्रग्रहणं कृतं तदस्य जातिप्रत्ययादेवान्यत्र भोक्तुमिच्छाया अभावादिति ॥२५८॥ अथैनमेवाधिकृत्याह
पातात्त्वस्येत्वरं कालं भावोऽपि विनिवर्तते ।
वातरेणुभृतं चक्षुः स्त्रीरत्नमपि नेक्षते ॥२५९॥ 'पातात्'-तथाविधनिकाचितमिथ्यात्वमोहोदयेन सम्यग्दर्शनस्य भ्रंशात् पुनः अस्य-सम्यग्दृष्टेः इत्वरं-परिमितमपार्धपुद्गलपरावर्तादिरूपं कालम् किम् इत्याह-'भावोऽपि'-तत्त्वश्रद्धानादिः, किं पुनर्भावकार्यं शुश्रूषादीत्यपिशब्दार्थः, विनिवर्तते । एतदेव प्रतिवस्तूपमया भावयति-वातरेणुभृतंवातहार्यं रजो 'वातरेणुः-वातोद्धतं रजस्तेन भृतं-पूरितम् चक्षुरक्षिगोलरूपम् 'स्त्रीरत्नमपि'-रम्भातिलोत्तमादि किं पुनः शेषं दृश्यमित्यपिशब्दार्थः, ननैव ईक्षते-पश्यतीति । यथालब्धात्मलाभमपि चक्षुस्तथाविधोपद्रवान दृश्यमपि रूपं किंचित्कालं क्षममीक्षितुं, तथा सम्यग्दर्शनचक्षुरपि जीवादितत्त्वमिति ॥२५९॥ अथतृतीयलिङ्गभावनामाह.. भोगिनोऽस्य स दूरेण भावसारं तथेक्षते ।
सर्वकर्तव्यतात्यागाद् गुरुदेवादिपूजनम् ॥२६०॥ - भोगिनो-भोक्तुः पुरुषात्सकाशात् अस्य-स्त्रीरत्नस्य 'स'-सम्यग्दृष्टिः दूरेणातिशयेन भावसारमन्त:परिणतिप्रधानम् 'तथा' इति समुच्चये 'ईक्षते'निभालयति हृदयचक्षुषा, किं तदित्याह 'सर्वकर्तव्यतात्यागात्' - त्यागभोगादिसर्वशेषप्रयोजनकरणीयतापरिहारेण 'गुरुदेवादिपूजनं'-उक्तरूपम् । इदमुक्तं भवति यादृशं तद्भोक्ता स्त्रीरत्नगोचरं गौरवमवलम्बते, ततोऽनन्तगुणमसौ सम्यग्दृष्टिगुरुदेवादिपूजाविषयं बहुमानमातिष्ठत इति ॥२६० ॥ तथा
निजं न हापयत्येव कालमत्र महामतिः । । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः ॥२६१॥
१. मितमुपार्ध-AB.; २. वातरेणुस्तेन भृतं-AC.; ३. पश्यति-AB.C.; ४. रम्यमपि-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org