SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२४ २२४ योगबिन्दु सूत्र : २६१-२६२-२६३-२६४ निजं-स्वकं त्रिसन्ध्यादिरूपं, न हापयत्येव न हारयत्येव,-कालमवसरं अत्र-देवतापूजनादौ महामतिः प्रशस्तबुद्धिरेष सम्यग्दृष्टिः । कथमित्याह 'सारतां' सर्वप्रयोजनेषु प्रधानतां अस्य-गुरुदेवादिपूजनस्य विज्ञाय 'सद्भावप्रतिबन्धत:'-तात्त्विकपरिणामप्रतिबन्धात् ॥२६१ ॥ किं च शक्तेन्यूँनाधिकत्वेन नात्राप्येष प्रवर्तते । प्रवृत्तिमात्रमेतद्यद् यथाशक्ति तु सत्फलम् ॥२६२॥ 'शक्तेन्यूनाधिकत्वेन' न्यूनत्वेनाधिकायामधिकत्वेन हीनायां शक्तौ ननैव अत्रापि-देवपूजनादौ किं पुनः शेषकृत्येष्वित्यपिशब्दार्थः एष 'स सम्यग्दृष्टिः प्रवर्तते, कुतः ? यतः प्रवृत्तिमात्रं-प्रवृत्तिरेव केवला फलविकला एतदयथाशक्ति गुरुदेवादिपूजनम् यद्यस्मात्, कथं तर्हि 'सत्फलमेतत्स्यादित्याशंक्याह 'यथाशक्ति तु'-शक्त्यनुरूपं पुन:, 'स्त्फलं'-विद्यमानफलं देवादिपूजनं क्रियमाणं स्यात् ॥२६२॥ अयं तु सम्यग्दृष्टिर्यथा स्यात्तथा दर्शयति एवंभूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः । यथाप्रवृत्तिकरणव्यतिक्रान्तो महाशयः ॥२६३॥ . _ 'एवम्भूतः'- शुश्रूषादिगुणभाक् 'अयमाख्यातो'-निरूपितः सम्यग्दृष्टियथावदर्शी, 'जिनोत्तमैः' । कीदृश इत्याह 'यथाप्रवृत्तिकरणव्यतिक्रान्त:'यथाप्रवृत्ति'नामकरणादुपलक्षणत्वादपूर्वानिवृत्तिकरणाभ्यां चातीत: 'महाशयः'प्रशस्तपरिणामः ॥२६३॥ करणान्येव दर्शयति करणं परिणामोऽत्र सत्त्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तमाख्यातमपूर्वमनिवृत्ति च ॥२६४॥ 'करणं'-क्रियतेऽनेनेति करणं-कर्तुः साधकतमं तच्चेह परिणाम: 'अत्र'यथाप्रवृत्त्यादिकरणस्वरूपनिर्णये प्रक्रान्ते सति सत्त्वानाम् । तत्करणं पुनस्त्रिधा । त्रैविध्यमेव दर्शयति-यथाप्रवृत्तमेकमाख्यातं शास्त्रान्तरेषु, द्वितीयमपूर्वं, तृतीयमनिवृत्ति चानिवृत्तिनामकं पुनरिति ॥२६४॥ अथैतानि येषां यत्कालानि च भवन्ति तदाह १. 'स' इति AB.C. प्रतिषु नास्ति; २. सफलमेत-B.C.; ३. नामकादुपलक्ष-AB.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy