________________
योगबिन्दु सूत्र : २३६-२३७-२३८-२३९
सन्निहितमृत्पिण्डादिसर्वस्वोपकरणोऽपि न पटादि साधयितुमलं तदुपकरणाभावात्, तथात्मादिप्रत्ययविकलस्तदन्यानुष्ठानवानपि योगी नैकान्तिकीं सिद्धिमाराधयितुं समर्थः स्यात् ॥२३६॥ अथामुमेव पुरस्कुर्वन्नाह
२१६
पठितः सिद्धिदूतोऽयं प्रत्ययो ह्यत एव हि । सिद्धिहस्तावलम्बश्च तथान्यैर्मुख्ययोगिभिः ॥ २३७॥ पठितो-निरूपितः सिद्धिदूतः - सिद्धिसमागमहेतुः अयमात्मादिप्रत्ययः हि: स्फुटम् ' अत एव हि ' ऐकान्तिकसिद्धिहेतुत्वादेव हेतो:, 'सिद्धिहस्तावलम्बश्च'- सिद्धौ तथाविधप्रासादश्रृंग इवारोढुमनसां हस्तावलम्बसदृशः, च:समुच्चये, 'तथा' इति तत्प्रकारैरन्यैः - नेपथ्यमात्रभेदतोऽस्मद्विलक्षणैः 'मुख्ययोगिभिः ' शुद्धमार्गदर्शितया तत्त्वरूपैर्धार्मिकैरिति ॥ २३७ ॥
-
अपेक्षते ध्रुवं ह्येनं, सद्योगारम्भकस्तु यः । 'नान्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः ॥ २३८ ॥ अपेक्षते - ऽवलम्बते ध्रुवं हि ध्रुवमेव, एनमात्मादिप्रत्ययम् क इत्याह 'सद्योगारम्भकस्तु' सानुबन्धयोगारम्भक एव यः कश्चित् । व्यवच्छेद्यमाह न-नैव, * अन्यः - 'विषयस्वरूपशुद्धप्रथमद्वितीयानुष्ठानविधाता कीदृश इत्याह 'प्रवर्तमानोऽपि' किं पुनरितररूप इत्यपिशद्वार्थः, तत्र योगे 'दैवनियोगतः ' तथाविधकर्मपारतन्त्र्यात् ।
२*
अन्यस्य हि तत्त्वपरिज्ञानशून्यतयाऽलब्धात्मलाभस्य सर्वत्र प्रवृत्तौ कर्मपारन्त्र्यमेव हेतुर्न पुनस्तत्त्वज्ञानं, विवेकिलोकापेक्षणीयत्वात्तस्य ॥२३८॥ किं च
आगमात्सर्व एवाऽयं, व्यवहारः स्थितो यतः । तत्रापि हाठिको यस्तु हन्ताऽज्ञानां स शेखरः ॥२३९॥ आगमाद्-गुरुवचनप्रत्ययरूपात् सर्व एव - निखिलोऽपि अयं - योगमा - गोपयोगी व्यवहारो - हेयोपादेययोर्हानोपादानरूपः स्थितः प्रतिष्ठितः यतो यस्मादतीन्द्रियफलत्वात्तस्य, अतीन्द्रियफलेषु चानुष्ठानेषु शास्त्रस्यैव प्रतीति
१. नाज्ञः प्रवर्त - A; २. 'अज्ञो' - A; ३. अज्ञस्य - A; ४ प्रवृत्तिहेतुत्वात् - A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org