________________
योगबिन्दु सूत्र : २३४-२३५-२३६
सिद्ध्यन्तरं न सन्धत्ते, या सावश्यं पतत्यतः । तच्छक्त्याप्यनुविद्धैव, पातोऽसौ तत्त्वतो मतः ॥ २३४ ॥ 'सिद्ध्यन्तरं' - प्रस्तुतकार्यसिद्धेः कार्यान्तरसिद्धिरूपम् न-नैव सन्धत्तेघटयति या - सिद्धिः साऽवश्यं - नियमेन, पतति निवर्तते । अतोऽवश्यंपातात् तच्छक्त्यापि-पातशक्त्यापि अनुविद्धा - व्याप्ता, एवशब्दस्य भिन्नक्रमत्वात्, ततः पात एव असौ-सिद्धिः, सम्प्रत्यपातेऽपि परतस्तावत्पात एवेत्यपिशब्दार्थः, तत्त्वतः (परमार्थतः) मत: (मता ) - संमतो ( संमता) विदुषाम् । यथा ह्यविद्यमानपुत्रपौत्रादिसन्तानः पुमान्स्वकालेऽपतन्नपि पातशक्त्यनुवेधात्परमार्थतः पात एव तथा प्रस्तुता यमनियमादिसिद्धिरप्यनुबन्धविकला योजनीया पातत्वेनेति ॥२३४॥ अथैतद्विपर्ययमाह
,
सिद्ध्यन्तराङ्गसंयोगात्, साध्वी चैकान्तिकी भृशम् । आत्मादिप्रत्ययोपेता तदेषा नियमेन तु ॥ २३५ ॥ सिद्ध्यन्तराङ्गसंयोगात्-सिद्ध्यन्तराणां प्रस्तुतसिद्धेरन्यसिद्धिविशेषाणां यान्यङ्गानि हेतवस्तेषां संयोगान्मीलनात् साध्वी च सङ्गता पुनः 'ऐकान्तिकी' सिद्धिः पातविकला भृशमत्यर्थ परं परयाप्यसिद्धिरूपपरिहारात् ‘आत्मादिप्रत्ययोपेता’-आत्मगुरुलिङ्गप्रतीतिसङ्गता । तत् तस्मात् एषा - ऐकान्तिकी सिद्धि:, नियमेन त्ववश्यंतयैव वर्तते, आत्मादिप्रत्ययस्यैव सिद्ध्यन्तराऽवन्ध्यहेतुत्वात् ॥ २३५ ॥ एतदेव समर्थयते
न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि ।
हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् ॥ २३६ ॥ न हि-नैव उपायान्तरोपेयं मृत्पिण्डाद्युपायान्तरसाध्यं घटादिकार्यम्, उपायान्तरतोऽपि हि - सूत्रपिण्डाद्युपायान्तरादपि भवति हाठिकानामपि - बलात्कारचारिणां किं पुनस्तदन्यथाचारिणामित्यपिशब्दार्थः यतो- यस्मात्, तत्तस्मात् 'प्रत्ययपरः- आत्मादिप्रत्ययपरायणः भवेत् - स्यादै कान्तिकीं सिद्धिमभिलषन्ं योगी, तस्यास्तदेकहेतुत्वात् । यथा हि कुम्भकारादिः
Jain Education International
-
-
१. कान्तिकीसिद्धि-A.B.C.; २. सन् योगी-A;
२१५
For Personal & Private Use Only
www.jainelibrary.org