________________
योगबिन्दु सूत्र : २३१-२३२-२३३ लिङ्गानि चेति समासः । प्रतीयते भाव्यर्थोऽस्मादिति 'प्रत्ययः'त्रिविधस्त्रिप्रकारो 'मतः सर्वत्र सदनुष्ठाने' फलाविसंवादिनि प्रयोजने, 'योगमार्गे' प्रस्तुत एव विशेषतो-विशेषेण मत इति, अस्य सर्वसदनुष्ठानातिशायित्वात् ॥२३१ ॥ एनमेव त्रिविधं प्रत्ययं भावयन्नाह- .
आत्मा तदभिलाषी स्याद्, गुरुराह तदेव तु । . तल्लिङ्गोपनिपातश्च, सम्पूर्ण सिद्धिसाधनम् ॥२३२॥ आत्मा-सदनुष्ठानारम्भिणः पुंसोऽन्तरात्मरूप: स्वत एव तावत्तदभिलाषीसदनुष्ठानाभिलाषवान्, स्याद्-भवेत् । ततो गुरुर्धर्मोपदेष्टा आह ब्रूते तदेव तु-यदेवात्मनाभिलषितमासीत्, तल्लिङ्गोपनिपात:-तस्याभिलषितस्य सिद्धिसूचकानि लिङ्गानि यानि "नन्दीतूरं पुनस्स दंसणं सङ्घपडहसदो य । भिंगारछत्तचामरज्झयपडागा पसत्थाई ॥१॥" इत्यादिसूत्रसिद्धानि, तेषामुपनिपात:-संनिहितता । च: समुच्चये । किमित्याह सम्पूर्ण-समस्तं, सिद्धिसाधनं-विवक्षित फलनिष्पत्तिसूचकम् ॥२३२॥
अथ सिद्धिमेव भावयन्नाह- ' सिद्धयन्तरस्य सद्बीजं, या सा सिद्धिरिहोच्यते ।
ऐकान्तिक्यन्यथा नैव, पातशक्तयनुवेधतः ॥२३३॥ सिद्ध्यन्तरस्य-फलान्तरसिद्धिरूपस्य, सद्-अवन्ध्यं बीज-हेतुः या, सा सिद्धिरिह विद्वल्लोके उच्यते । कीदृशीत्याह 'ऐकान्तिकी'नियमेनाऽसिद्धिरूपपरिहारवती अन्यथा-सिद्ध्यन्तरसद्वीजभावाऽभावे नैव-न सर्वथा सिद्धिर्भवति । कुत इत्याह 'पातशक्त्यनुवेधत:'-भ्रंशसामर्थ्यानुवेधात् ।
तथा हि, तथाविधप्रासादादि अस्थ्यादिशल्योपघातान्महता यत्नेनोपरच्यमानमपि नोदयमासादयति किं त्ववश्यं पतति, एवं विवक्षितसिद्धिरपि मिथ्याभिनिवेशादिपातशक्त्यनुवेधान्न निर्वाणावसानफलाय सम्पद्यते ॥२३३॥ अमुमेवार्थमधिकृत्याह
१. फलनिष्पन्नसूचकम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org