________________
योगबिन्दु सूत्र : २२७-२२८-२२९-२३०-२३१
'महाभाग : ' - प्रशस्याचिन्त्यशक्तिः, किमित्याह तस्य शास्त्रपरतन्त्रतया मान्यमन्तुः धर्मक्रिया - उक्तरूपा परा - प्रकृष्टेति ॥ २२७ ॥ व्यतिरेकमाह 'यस्य' इत्यादियस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ २२८ ॥ यस्य त्वनादरोऽगौरवरूपः शास्त्रे, तस्य श्रद्धादयः - श्रद्धासंवेगनिर्वेदादयो गुणाः किमित्याह उन्मत्तगुणतुल्यत्वात् तथाविधग्रहावेशात्सोन्मादपुरुषशौर्यौदार्यादिगुणसदृशत्वात् न प्रशंसास्पदं न श्लाघास्थानं सतां विवेकिनामिति ॥२२८ ॥ एतदपि कथम् ? यतः -
-
मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥२२९॥
मलिनस्य - मलवत:, यथात्यन्तं - अतीव जलं - पानीयम् वस्त्रस्य - प्रतीतरूपस्य शोधनं-शुद्धिहेतुः, 'अन्तःकरणरत्नस्य' अन्तःकरणं - मनः तदेव रत्नं, तस्य चिन्तारत्नादिभ्योऽप्यतिशायिनः ' तथा शास्त्रं ' विदुर्जानते शोधनं, बुधा: - बुद्धिमन्तः ॥ २२९ ॥ अत एव -
२१३
शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तेर्दूती परोदिता । अत्रैवेयमतो न्याय्या, 'तत्प्राप्त्यासन्नभावतः ॥ २३०॥ शास्त्रे भक्तिरुक्तरूपा जगद्वन्द्यैर्जगत्त्रयपूजनीयैस्तीर्थकृद्भिः 'मुक्तेर्दूती अवशीभूतमुक्तियोषित्समागमविधायिनी परा-प्रकृष्टा उदिता -निरूपिता, 'अत्रैव' शास्त्र एव इयं भक्तिः अतो- मुक्तिदूतीभावादेव हेतोः न्याय्या - सङ्गता कुत इत्याह ' तत्प्राप्त्यासन्नभावत: '- मुक्तिप्राप्तेरासन्नभावात् । न हि मुक्तिप्राप्तेरनासन्नः शास्त्रभक्तिमान्सम्पद्यते, अतः शास्त्र एवेयं न्याय्येति ॥ २३० ॥
अथ सम्यक्प्रत्ययवृत्तिश्चेत्यधिकृत्याह
तथात्मगुरु लिङ्गानि, प्रत्ययस्त्रिविधो मतः ।
सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥२३१॥
' तथा ' इति वक्तव्यान्तरसमुच्चये । 'आत्मगुरुलिङ्गानि ' आत्मा च गुरुश्च
१. तत्प्रत्यासन्न-A; २. मुक्तिदूती - B. C; ३. तत्प्रत्यासन्न -A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org