________________
२१२
योगबिन्दु सूत्र : २२३-२२४-२२५-२२६-२२७ अनर्थोऽकल्याणम् क्रियोदाहरणाचिकित्सादृष्टान्तात् परः प्रकृष्टः ।
यथोक्तम्-“पडिवजिऊण किरियं, तीए विरुद्धं निसेवइ जो उ । अपवत्तगाउ अहियं, सिग्धं च 'संपावइ विणासं" ॥२२३॥ .
तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते ।
लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥२२४॥ तस्माद्धर्मेऽविधानतः परानर्थभावात् सदैव-सर्वकालमेव धर्मार्थीधर्माभिलाषुकः शास्त्रयत्नः-शास्त्रादरपरः प्रशस्यते-श्लाघ्यते । कुतः? यतः लोके-जगति मोह एवान्धकारस्तमो यत्र स तथा तत्र, शास्त्रालोकः-शास्त्रप्रकाशः; प्रवर्तकः प्रवर्तयिता परलोकक्रियासु ॥२२४॥ अथ शास्त्रमेव स्तुवन्नाह. पापामयौषधं शास्त्र, शास्त्रं पुण्यनिबन्धनम् ।..
चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥२२५॥ . पापामयौषधं-पापव्याधिशमनीयं शास्त्रम् । तथा शास्त्रं पुण्यनिबन्धनंपवित्रकृत्यनिमित्तम् । चक्षुर्लोचनं सर्वत्रगं-सूक्ष्मबादरादावर्थे गच्छति यत्तत्सर्वत्रगं शास्त्रम्, शास्त्रं सर्वार्थसाधनं-सर्वप्रयोजननिष्पत्तिहेतुः ॥२२६ ॥ ततः ..
न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि ।
अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥२२६॥ नयस्य-धर्मार्थिनः भक्ति:-बहुमानरूपा एतस्मिन्-शास्त्रे, तस्य धर्मक्रियापि हि-देववन्दनादिरूपा किं पुनरन्यरूपेत्यपिहिशब्दार्थ: अन्धप्रेक्षाक्रियातुल्याअन्धस्यावलोकनकृते या प्रेक्षणकक्रिया तत्तुल्या, कर्मदोषात्-तथाविधमोहोदयात् असत्फला-अविद्यमानाभिप्रेतार्था सम्पद्यत इति ॥२२६ ॥ एतदपि कुतः ? यतः
यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः ।
गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥२२७॥ यः श्राद्धः-सन्मार्गश्रद्धालुः मन्यते-बहुमानविषयीकुरुते मान्यान्-देवतादीन् 'अहङ्कारविवर्जितो'-मुक्ताभिमानः । अत एव 'गुणरागी'-गुणानुरागवान्
१. स पावइ-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org