________________
योगबिन्दु सूत्र : २१९-२२०-२२१-२२२-२२३
कदाचनाप्यन्यथारूपमिति ॥ २१९ ॥ एतदेव भावयति
एतद्धयुदग्रफलदं गुरुलाघवचिन्तया । अतः प्रवृत्तिः सर्वैव, सदैव हि महोदया ॥ २२० ॥ एतद्- अनुबन्धप्रधानमनुष्ठानम् हिः- यस्मात् उदग्रफलदं उदारफलदायि कथमित्याह 'गुरुलाघवचिन्तया' - सर्वकार्येषु गुणदोषयोर्गुरुलघुभावालोचनेन, एतदपि कथमित्याह 'अतः '- गुरुलाघवचिन्तातः प्रवृत्तिः - चेष्टा 'सर्वैव' न पुनः काचिदेव, सदैव - सर्वकालमेव हि :- यस्मात् महोदया अतिप्रशस्तफला स्यादिति ॥ २२० ॥ अथ सच्छास्त्र पारतन्त्र्यमधिकृत्याह
-
२११
परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ २२९ ॥ 'परलोकविधौ'-परलोकफले प्रयोजने कर्तव्ये शास्त्रादुक्तनिरुक्तात् प्रायोबाहुल्येन न-नैव अन्यल्लोकरूढ्यादि अपेक्षते - आलम्बते । क इत्याह 'आसन्नभव्यः '-दूरभव्यव्यवच्छेदार्थमेतत् 'मतिमान् मार्गानुसारी प्राज्ञः तथा ‘श्रद्धाधनसमन्वितः’-श्रद्धानुष्ठानाभिलाषरूपधनसमन्वितः ॥२२१॥
उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः ।
धर्मस्तु न विनां शास्त्रादिति तत्रादरो हितः ॥२२२॥ उपदेशं - शास्त्रप्रज्ञापनं विनाप्यन्तरेणापि किं पुनरितरथेत्यपिशब्दार्थः 'अर्थकामौ ' - प्रतीतरूपावेव प्रतीत्याश्रित्य पटुर्जनो, लोकरूढिप्रामाण्यादपि तत्सिद्धिसम्भवात् । धर्मस्तु धर्मः पुनरुक्तनिरुक्त: 'न विना शास्त्रात्' इत्यस्माद्धेतोः तत्र - शास्त्रे आदरो - यत्नः - कल्याणरूपः सम्पद्यते इति ॥ २२२ ॥
अर्थादावविधानेऽपि तदभावः परं नृणाम् ।
धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः ॥ २२३ ॥
अर्थादावर्थकामलक्षणविषये अविधानेऽप्यविधावपि क्रियमाणे 'विधौ तावत्सर्वानर्थाभाव' इत्यपिशब्दार्थः तदभावोऽर्थाद्यभावः 'परं' केवलं, नान्यः कश्चिदनर्थः नृणां-पुंसां सम्पद्यत इति । धर्मे धर्मविषये अविधानतोऽविधानात्
१. परतन्त्रतेत्यधिकृत्याह - A. B. C. ; २. प्रत्याश्रित्य -A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org