________________
२१०
योगबिन्दु सूत्र : २१७-२१८-२१९ न पुनः एकान्तानुबन्धनाद्भस्मीकृतदर्दुरचूर्णविनाशवदेकान्तेन सर्वथोत्तरत्राप्यनुवृत्तिमान् । अत्र हेतुः 'गुरुलाघवचिन्तादि' गुणदोषविषया गुरुलघुभावमीमांसा गुरुलाघवचिन्ता आदिशब्दात्प्रवृत्तिश्च न यद्-यस्मात् तत्र स्वरूपशुद्धानुष्ठाने नियोगतो-नियमेन । तथाहि-तथाविधविवेकवैकल्येन कायमात्रक्रियाप्रधानत्वान्नात्यन्तिको दोषविगमोऽत्र । यतः पठ्यते-"कायकिरियाए, दोसा, खविया मण्डुक्कचुण्णतुल्ल त्ति । 'सव्वावणए ते पुण, नेया तच्छारसारिच्छा" (यो. श. ८६) ॥२१७॥
अत एवेदमार्याणां, बाह्यमन्तर्मलीमसम् ।
कुराजपुरसच्छालयलकल्पं व्यवस्थितम् ॥२१८॥
अत एव दोषविगमैकान्तानुबन्धाभावादेव 'इदं'-स्वरूपशुद्धानुष्ठानं 'आर्याणां'-सर्वहेयधर्मेभ्य आराद्भागयायिनां मतेन बाह्यम्-अप्रधानम्, अंत एवान्तर्मध्ये 'मलीमसं' मलिनम् 'कुराजपुरसच्छालयलकल्पं' कुराजस्य कुनृपतेर्यत्पुरं नगरं तस्य य: सन्सुन्दरः परैरधृष्यत्वाच्छालः प्राकारस्तत्र यो यत्न आदरातिरेक: कुराजस्यैव तत्कल्पं तत्तुल्यं, 'व्यवस्थितं'-प्रतिष्ठितम् । यथा हि विहितपराधृष्यप्राकारमपि पुरं कुत्सितराजाधिष्ठितं न च तथाविधां वृद्धिं लब्धुमलं, लोकलुण्ठनादिभिस्तदुपद्रवैर्नित्यमेव तस्य दुःस्थीकृतत्वात्, एवं स्वरूपशुद्धानुष्ठानमिति बाह्यदोषाभावेऽपि तत्त्वज्ञानविकलस्य पुंसोऽत एव कुराजसदृशस्य न परां गुणवृद्धि प्राप्तुमुत्सहते, अज्ञानदोषोपघातादेव ॥२१८ ॥
तृतीयाद्दोषविगमः, सानुबन्धो नियोगतः ।
गृहाद्यभूमिकाऽऽपाततुल्यः कैश्चिदुदाहृतः ॥२१९॥ तृतीयात्सानुबन्धनानुष्ठानात् दोषविगमः सानुबन्धो 'नियोगतो'-नियमेन वर्तते । अयं च 'गृहाद्यभूमिकापाततुल्यो'-गृहस्य देवगृहादेराद्यभूमिका दृढपीठबन्धरूपा तस्या आपात आरम्भस्तत्तुल्यस्तत्सदृशः कैश्चित्तीर्थान्तरीयैः उदाहृतः-उक्तः, अयं चास्माकमपि संमत एव । यथा हि गृहस्य सम्यगादिभूमिकाप्रारम्भो नोपरिविरच्यमानगृहभङ्गफल: सम्पद्यते, किंतु तदनुबन्धप्रधान एव, एवं तत्त्वसंवेदनानुगतमनुष्ठानमुत्तरोत्तरदोषविगमावहमेव भवति, न तु १. सब्भावणाए-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org