________________
२०९
योगबिन्दु सूत्र : २१४-२१५-२१६-२१७ तृतीयमप्यदः किंतु, तत्त्वसंवेदनानुगम् ।
प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्यवर्जितम् ॥२१४॥ तृतीयमप्यनुष्ठानम् अदो-यमाद्येव, किन्तु-पुनः 'तत्त्वसंवेदनानुगं'जीवादितत्त्वसम्यक्परिज्ञानानुगतम् तथा 'प्रशान्तवृत्त्या'-कषायादिविकारनिरोधरूपया सर्वत्र-कार्ये, दृढं-अत्यर्थम् 'औत्सुक्यवर्जितं'-त्वरापरिहीणं, अप्रशान्तवृत्तावेवौत्सुक्यदोषावकाशात् ॥२१४॥ अथैतदनुष्ठानत्रयस्य प्रत्येकं फलमाह
आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धानमत एके प्रचक्षते ॥२१५॥ आधाद्विषयानुष्ठानात् न-नैव दोषविगमो'-मोक्षलाभबाधकदोषपरिहाणिरूपः, कुत इत्याह- 'तमोबाहुल्ययोगतः'-तमसोऽज्ञानस्य बाहुल्यं बहुलभावस्तद्योगात्, आत्मघातादिप्रवृत्तिव्यङ्गयो ह्यसौ, एतत्प्रधानं च प्रथमानुष्ठानम्।अत्रैव मतान्तरमाह तद्योग्यजन्मसन्धानं'-दोषविगमोचितस्य जातिकुलादिगुणयुक्तत्वेन जन्मनो भवान्तरोत्पत्तिलक्षणस्य सन्धानं घटनम् अत:-अनुष्ठानात्, 'एके' शास्त्रकृतः 'प्रचक्षते'-प्रज्ञापयति ॥२१५॥ अत्र हेतुः
मुक्ताविच्छापि यच्छ्लाघ्या, तमःक्षयकरी मता ।
तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः ॥२१६॥ मुक्ताविच्छापि किं पुनरेतद्विषया क्रियेत्यपिशब्दार्थ: यद्-यस्मात् श्लाघ्याप्रशस्या 'तमःक्षयकरी'-मोहविध्वंसकारिणी 'मता' मतिमतां, परं तस्या मुक्तेः 'समन्तभद्रत्वात्'-सर्वत: कल्याणरूपत्वात्, अनिदर्शनं-अतीववैसदृश्यादननुरूपम् इति-एवमतिसावधप्रकृतित्वेन अदो-विषयानुष्ठानं वर्तते । सदृशो हि भावः सदृशस्य हेतुर्भवति, यथा मृद् घटस्य, विषयानुष्ठानं त्वतीवसावद्यरूपत्वात्कथमेकान्तनिरवद्यरूपाया मुक्तेर्हेतुः स्यात्, अतो न तन्मुक्तिहेतुः, किं तु तद्गतमुक्तीच्छामात्रमेव ॥२१६ ॥
द्वितीयाझेषविगमो, न त्वेकान्तानुबन्धनात् ।
गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥२१७॥ द्वितीयाद्-अनुष्ठानात् दोषविगम:-कषायादिनिरोधरूप: सम्पद्यते, नतु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org