________________
२०८
योगबिन्दु सूत्र : २११-२१२-२१३ । तत्प्रवृत्तिलक्षणम् । अत्र प्रधानत्वं-'ज्येष्ठत्वं ज्ञेयं-अवगम्यम्, अस्य त्रिधानुष्ठानस्य यथोत्तरम्-यद्यतोऽनुष्ठानमुत्तरं तत्तदपेक्षया प्रधानमिति भावः ॥२११ ॥अथेदमेव क्रमेण दर्शयति
आद्यं यदेव मुक्त्यर्थं, क्रियते पतनाद्यपि ।
तदेव मुक्तयुपादेयलेशभावाच्छुभं मतम् ॥२१२॥ आद्यं'-विषयशुद्धमनुष्ठानम् यदेव किंचित् मुक्त्यर्थं-मुक्तये 'मुक्तिर्मे भूयादितोऽनुष्ठानादि 'ति प्रणिधानेन क्रियते-पतनाद्यपि तत्र पतनं हिमपथभृगुपातादिलक्षणंआदिशब्दाच्छस्त्रपाटनगृध्रपृष्ठार्पणादिः शेष: स्वघातोपायः परिगृह्यते, किं पुनः शेषं त्वस्याहिंसकमित्यपिशब्दार्थः, तदेव-तदप्यनुष्ठानम् मुक्त्युपादेयलेशभावाद्-भावप्रधानत्वानिर्देशस्य मुक्त्युपादेयतासम्भवात् शुभं-शोभनम्मतं अभिप्रेतम्, न तु स्वरूपतः, अत्यन्तसावद्यरूपत्वात् ॥२१२॥
द्वितीयं तु यमाद्येव, लोकदृष्टया व्यवस्थितम् ।
न यथाशास्त्रमेवेह, सम्यग्ज्ञानाद्ययोगतः ॥२१३॥ 'द्वितीयं तु'-क्रमप्रामाण्यात्स्वरूपशुद्धानुष्ठानं पुन: ‘यमाद्येव-पञ्चयमपञ्चनियमरूपमेव, तत् कीदृशमित्याह 'लोकदृष्ट्या'-स्थूलव्यवहारिणो लोकस्य मतेन, व्यवस्थितं-प्रसिद्धम् । अत एव न-नैव, यथाशास्त्रमेव, शास्त्रसद्भाव: शासनाद् दुःखत्राणाच्चोच्यते, तच्च जैनमेव । यथोक्तम् “शासनसामर्थ्येन तु, संत्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं, तच्चैतत्सर्वविद्वचनम्" ॥ (प्र. रति १८८) ॥ ततो यथा-येन प्रकारेण, शास्त्रं व्यवस्थितं तेनैव, इहयोगचिन्तायाम्, कुत इत्याह 'सम्यग्ज्ञानाद्ययोगत:'-सम्यग्ज्ञानश्रद्धानाऽभावात्, न हि सम्यग्ज्ञानाद्यभावे दूरं संसारविरक्तोऽपि यथाशास्त्रमेव प्रवृत्तिमवलम्बितुं क्षमः, किं तु घुणाक्षरवृत्त्यैव कदाचित्किंचिदेव । अयमत्र भाव:-येऽमी पूरणादयः प्रथमगुणस्थानकवर्तिनोऽपि तथाविधसंसारवैराग्याल्लोकदृष्टिप्रतिष्ठितयमानियमांश्च जीवादितत्त्वमजानानाः सन्तः समनुतिष्ठन्ति तत्स्वरूपशुद्धमनुष्ठानमुच्यत इति ॥२१३॥
१. पूज्यत्वं-A; २. स्वस्या-B; स्वास्या-c:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org