________________
योगबिन्दु सूत्र : २०८-२०९-२१०-२११
२०७ सति च-विद्यमाने पुन: अस्मिन्नूहे-विमलमनोरूपे स्फुरद्रत्नकल्पे समुज्जृम्भमाणरुचिजालजटिलपद्मरागादिमणिविशेषसमाने, किमित्याह सत्त्वोल्बणत्वतः' सत्त्वं वीर्यं तस्योल्बणत्वमुदग्रत्वं तस्मात् 'भावस्तैमित्यतो-' भावोऽन्तःकरणं, तस्य स्तैमित्यं-क्षुद्रतादिभिर्भवाभिनन्दिचित्तदोषैरक्षोभणीयता; तस्मात् शुद्धं अनवद्यम् अनुष्ठानं-धर्मशास्त्रशुश्रूषणादि 'सदैव हि-' सर्वकालमेव स्यात्, परिशुद्धोहापोहयोगस्य सम्यगनुष्ठानावन्ध्यकारणत्वात् । एवं च सदूहभाज: शुद्धानुष्ठानभाक्त्वं प्रागाक्षिप्तं साधितं भवतीति ॥२०८ ॥ इदमेवानष्ठानमधिकृत्याह
एतच्च योगहेतुत्वाद्योग इत्युचितं वचः ।
मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् ॥२०९॥ "एतच्चतत्पुनः शुद्धमनुष्ठानम् योगहेतुत्वाद्-मोक्षसंयोगकारणत्वाद्योगो वर्तते' इत्येवंरूपम् उचितं-योग्यं, वचो-वचनं सार्थकत्वादिन्द्रपुरन्दरादिशब्दवत्, न पुनरन्यदपुनर्बन्धकादिगतमिति भावः । अत्रैव विशेषमाह मुख्यायां-प्रकृष्टायां, पूर्वसेवायां-देवगुरुपूजादिरूपायां अवतार:-अवकाशः अस्य-शुद्धानुष्ठानस्य केवलं-परम् । अन्यदा तु जायमानमप्येतत्तदाभासमेव स्यात् ॥२०९ ॥ अथ योगमेवाधिकृत्याह
त्रिधा शुद्धमनुष्ठानं, सच्छास्त्रपरतन्त्रता ।
सम्यक्प्रत्ययवृत्तिश्च, तथात्रैव प्रचक्षते ॥२१०॥ "त्रिधा-त्रिभिः प्रकारैर्वक्ष्यमाणै: शुद्धं अनुष्ठानं, तथा सच्छास्त्रपरतन्त्रता'सम्यक्श्रुतग्रन्थाधीनभावः, 'सम्यक्प्रत्ययवृत्तिः'-सम्यक्प्रत्यय आत्मगुरुलिङ्गशुद्धिभेदात् त्रिधा तस्मिन्सति वृत्ति:-प्रवर्तनम्, चकार उक्तसमुच्चये 'तथा' इति वक्तव्यान्तरसमुच्चये, अत्रैव-योगप्रक्रमे योगो वर्तते" इति 'प्रचक्षते'ब्रुवते धार्मिका इति ॥२१० ॥ एतदेव भावयन्नाह
विषयात्मानुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् ।
अनुष्ठानं, प्रधानत्वं ज्ञेयमस्य यथोत्तरम् ॥२११॥ 'विषयात्मानुबन्धैस्तु' विषयेण-गोचरेण, आत्मना स्वरूपेण: अनुबन्धेन चोत्तरत्रानुवृत्तिलक्षणेन पुनः त्रिधा शुद्ध-अनवद्यम्, उदाहृतं उक्तम्, अनुष्ठानं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org