________________
. २०६ योगबिन्दु सूत्र : २०५-२०६-२०७-२०८
न चेह-नैवेह ग्रन्थिभेदेनोक्तरूपग्रन्थिविघटनेन पश्यतो-निरीक्षमाणस्य, भावं-पदार्थम् उत्तम-मोक्षरूपम् किमित्याह इतरेण-पुत्रकलत्रप्रतिबन्धादिरूपेण भावेन, आकुलस्यापि-दुर्निवारतया कर्मपरिणतेराक्षिप्यमाणस्य, किं पुनरनाकुलस्येत्यपिशब्दार्थः तत्रोत्तमभावे चित्तमन्तःकरणं, न जायते, किंतु जायत एवोत्तमभावदर्शनस्य, अन्यथा तत्त्वाऽयोगादिति ॥२०५॥ ननु किमनेन मोक्षचित्तेन येन भिन्नग्रन्थेर्भावतो योग उच्यते, क्रियाया एव फलदानप्रत्यलत्वात्, यतः पठ्यते "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्याशंक्याह
चारु चैतद्यतो ह्यस्य, तथोहः सम्प्रवर्तते । । ... एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत् ॥२०६॥
चारुच-सुन्दरमेव एतद्-मोक्षचित्तमभिलाषरूपम् यतो-यस्मात् ।हिस्फुटम् अस्य-भिन्नग्रन्थेः तथा-तत्प्रकारः, ऊहो-विमर्शः सम्प्रवर्तते-स्वयमेव जायते, एतद्वियोगविषयो-भवपार्थक्यगोचरः । तथा शुद्धानुष्ठानभाक् परिशुद्धशुश्रूषाधर्मरागादिसमाचारभाक् स भिन्नग्रन्थिीव: यद्-यस्माद्वर्तत इति ॥२०६ ॥ अस्यैवाभ्युच्चयमाह
प्रकृतेरा यतश्चैव, नाप्रवृत्त्यादिधर्मताम् ।
तथा विहाय घटत अहोऽस्य विमलं मनः ॥२०७॥ . प्रकृते:-कर्मसंज्ञितायाः आ-अर्वाक् यतश्चैव-यत एव च हेतोः न-नैव अप्रवृत्त्यादिधर्मतां-अप्रवृत्तिर्निवृत्ताधिकारित्वं, आदिशब्दात्तथाविधान्यप्रकृतिधर्मसंग्रहः ततोऽप्रवृत्त्यादयो धर्मा यस्याः सा तथा, तद्भावस्तत्ता, ताम् । तथा-तेन प्रकारेण, विहाय-विरहय्य, घटते-युज्यते ऊहः-उक्तरूप: अस्यभिन्नग्रन्थेः । किंलक्षणोऽसावित्याह 'विमलं'-अमलीमसं मनः चित्तमिति । अयमभिप्राय: प्रकृतेरप्रवृत्त्यादिधर्मतां विहायार्वाक्न संसारिणो जीवस्योक्तलक्षण ऊहो घटते, किं तु निवृत्त्यादिषु सतीष्विति ॥२०७॥ ततः
सति चास्मिन्स्फुरद्रलकल्पे सत्त्वोल्बणत्वतः ।
भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ॥२०८॥ १. अत्रैवाभ्युच्चयमाह-B.C.; अथैवा-A
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org