________________
योगबिन्दु सूत्र : २०२-२०३-२०४-२०५
२०५ नद्या आपूरोपसंहाराद्वेलावलनं प्रत्यहं 'प्रवर्तते, तथा प्रतिस्रोतोनुगामित्वानिवृत्तप्रकृत्यधिकारस्य योग इति भावः ॥२०२॥ द्रव्यत एवायं योग इत्यर्थाद्दर्शयन्नाह
भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः ।
तस्य तत्सर्व एवेह, योगो योगो हि भावतः ॥२०३॥ भिन्नग्रन्थेस्तु-विदारितातितीव्ररागद्वेषपरिणामस्य पुंसः पुनः यद् यस्मात् प्रायो बहून्वारान् मोक्षे-निवृत्तौ चित्तं-अन्त:करणम् । तथा भवे भवकृत्येष्वित्यर्थः तनु:-शरीरं वर्तते, तस्य-भिन्नग्रन्थेः । तत्तस्मात् 'सर्व एवेह' योगविचारे, धर्मार्थादिगोचरो योगो-व्यापारः । किमित्याह 'योगो हि' योग एव सम्यग्दर्शनादिरूपः, भावत:'-निश्चयवृत्त्या, "चित्तानुरूपफलत्वात्सर्वव्यापाराणामिति मोक्षाकांक्षाऽक्षणिकचित्तस्य सम्यग्दृष्टेर्या या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफला' इत्युपपद्यत एवास्य भावतो योग इति ॥२०३ ॥ एतदेव दृष्टान्ततो भावयन्नाह
नार्या यथान्यसक्तायास्तत्र भावे सदा स्थिते । .. तद्योग: पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥२०४॥
नार्यास्तथाविधायाः स्त्रिय: 'यथा' इति दृष्टान्तार्थः 'अन्यसक्ताया'अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिम्सातिरेकात्प्रतिबद्धचित्तायाः सम्बन्धिनि तत्राऽन्यस्मिन्, भावे-मन:परिणामे सदा-सर्वकालम् स्थिते' आरूढे सति किमित्याह'तद्योग:' तस्मिन्-अनुरागविषये पुरुषे योगो'-व्यापारः, स्वभर्तृशुश्रूषणादिकोऽपि तथा 'पापबन्धो.' जायते, भावतः परपुरुषपरिभोगजन्यः । च: पूर्ववत् 'तथा' इति दान्तिकार्थः, 'मोक्षे'-मोक्षविषये, अस्य-भिन्नग्रन्थे:, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलश्च 'दृश्यतां' विमृश्यतामिति ॥२०४॥ इदमेव भावयन्नाह
न चेह ग्रन्थिभेदेन, पश्यतो भावमुत्तमम् । इतरेणाकुलस्यापि, तत्र चित्तं न जायते ॥२०५॥
१. प्रवर्धते-A; २. निर्वृतौ-C.; ३. भवकृत्ये इत्यर्थः-A; ४. स्त्रिया:-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org