________________
२०४
योगबिन्दु सूत्र : १९९-२००-२०१-२०२ स्यादिति प्रायोग्रहणम्, एतद्वियोगविषयोऽप्यात्मना सह प्रकृतिवि'घटमगोचर: किं पुनर्भवबीजादिगोचर इत्यपिशब्दार्थः 'एष' ऊहः सम्यगूहनीयार्थाऽव्यभिचारी प्रवर्तते-समुन्मीलति । इदमुक्तं भवति-यथा भवबीजादिगोचरमतिनिपुणमूहते, तथा 'क्रमेणात्मनः कर्मणा वियोगो घटत एवमप्यूहत इति ॥१९९॥ एवं सति यत्सिद्धं तदाह
एवंलक्षणयुक्तस्य प्रारम्भादेव चापरैः । ..
योग उक्तोऽस्य विद्वद्भिर्गोपेन्द्रेण यथोदितम् ॥२००॥ .. 'एवंलक्षणयुक्तस्य'-पूर्वोक्तोहगुणसमन्वितस्य प्रारम्भादेव'-प्रारम्भमेव पूर्वसेवालक्षणमाश्रित्य अपरैस्तीर्थान्तरीयै: 'योगो' वक्ष्यमाणनिरुक्तः, उक्तोऽस्याऽपुनर्बन्धकस्य विद्वद्भिः-विचक्षणैः । गोपेन्द्रेण-योगशास्त्रकृता 'यथोदितं'यत्प्रकारमिदं वस्तु तथोदितमिति ॥२०० ॥ तदेव दर्शयति
योजनाद्योग इत्युक्तो, मोक्षेण मुनिसत्तमैः ।
स निवृत्ताधिकारायां, प्रकृतौ लेशतो झवः ॥२०१॥ योजनाद्-घटनात् 'मोक्षण' इत्युत्तरेण सम्बन्धः, योग इति अस्माद्धेतोः, उक्तो मुनिसत्तमैः-ऋषिपुङ्गवैः । स योग: 'निवृत्ताधिकारायां'व्यावृत्तपुरुषाभिभवायां प्रकृतौ'लेशत:'-किंचिद्वृत्त्या झवो'-निश्चितः ॥२०१॥ कीदृश इत्याह
वेलावलनवनद्यास्तदापूरोपसंहृतेः ।
प्रतिस्त्रोतोनुगत्वेन, प्रत्यहं वृद्धिसंयुतः ॥२०२॥ 'वेलावलनवद्' वेला-जलवृद्धिस्तस्या वलनं-व्यावृत्तिस्तद्वत् नद्या गंगादिकायाः, कुतो य(त)द्वलनमित्याह तदापूरोपसंहृते:-महासमुद्रक्षोभेण यस्तस्या नद्या आपूर:-आपूरणं तस्योपसंहृतेः-उपसंहारात्, निवृत्तप्रकृत्यधिकारस्य पुंसः, प्रतिस्रोतोनुगत्वेन हेतुना, "इन्द्रियकषायानुकूला वृत्तिरनुस्रोतस्तत्प्रतिकूला तु प्रतिस्रोतः", ततः प्रतिस्रोतोऽनुगच्छति यः स प्रतिस्रोतोनुगः, तद्भावस्तत्त्वं तेन । किमित्याह प्रत्यहं प्रतिदिवसं 'वृद्धिसंयुतः' वृद्धिमनुभवन् । यथा
१. निघटनागोचरः-A; २. कथमस्यात्मनः-A C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org