________________
२०३
योगबिन्दु सूत्र : १९७-१९८-१९९ 'कालादिभेदात्तत्सांसिद्धिकं मलमात्मना सह भेदाभेदवृत्ति सद्यतो नानारूपं वर्तते, ततस्तद्वशादेव परिणामवैचित्र्यमात्मनामनुपचरितमेवोपपद्यते न पुनरीश्वरानुभावात्, प्रागुक्तयुक्तया तस्य निराकृतत्वात्' इति वा चिन्तयत्यसाविति ॥१९७ ॥ इदमेव समर्थयति
विरोधिन्यपि चैवं स्यात्, तथा लोकेऽपि दृश्यते ।
स्वरूपेतरहेतुभ्यां, भेदादेः फलचित्रता ॥१९८॥ 'विरोधिन्यपि च' विघटमानैव च 'सर्वार्थप्राप्तिः' इत्यनुवर्तते, न पुनः कथंचिदपि अविरोधिनी एवं'-सांसिद्धिकमलादन्यहेत्वभ्युपगमे सति, स्याद्'भवेत् । यथा च विरोधिनी सर्वप्राप्तिः, तथाऽनन्तरमेव दर्शितेति । 'तथा' इति हेत्वन्तरसमुच्चये । लोकेऽपि'-शास्त्रे तावद्दर्शितैवेत्यपिशब्दार्थः 'दृश्यते'विलोक्यते 'स्वरूपेतरहेतुभ्यां'-स्वरूपहेतुः परिणामिकारणम् यथा मृद् घटस्य, इतरः पुनर्निमित्तहेतुर्यथा तस्यैव चक्रचीवरादि, ताभ्यां-तावाश्रित्येत्यर्थः । भेदादेः-भेदादभेदाच्च यथायोगं सम्बन्धात्स्वरूपहेतुमपेक्ष्याभेदादितरापेक्षया च भेदात्, किमित्याह 'फलचित्रता-' कार्याणां नानारूपता । ____ यदि हि मृन्मात्रहेतुक एव घट: स्यात्तदा सर्वघटानां मृन्मयत्वाऽविशेषादेकाकारतैव स्यात्, तथा बाह्यमात्रनिमित्तत्वे परिणामिकारणविरहेण कूर्मरोमादेरिव न कस्यचित्कार्यस्योत्पत्तिः स्यादिति स्वरूपेतरहेतू समाश्रित्याऽभेदवृत्त्या (भेदवृत्त्या) च कार्यमुत्पद्यमानं चित्ररूपतां प्रतिपद्यते । 'एवं सांसिद्धिके मले सर्वजीवानां परिणामिकारणे सति तत्कालादिबाह्यकारणसव्यपेक्षतायां चित्रकर्मबन्धकानां नानापरिणामप्राप्त्या सर्वो लोकः शास्त्रप्रसिद्धो नरनारकादिपर्यायः, तहासात्पुनरपुनर्बन्धकत्वादि यावत् सर्वक्लेशप्रहाणिलक्षणा मुक्तिरिति सर्वमनुपचरितमुपपद्यत इत्यूहत इति ॥१९८॥ ततः किमित्याह
एवमूहप्रधानस्य, प्रायो मार्गानुसारिणः ।
एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते ॥१९९॥ एवमुक्तरूपेण ऊहप्रधानस्य-वितर्कसारस्य प्रायो-बाहुल्येन 'मार्गानुसारिणो'- निर्वाणपथानुकूलस्य, अपुनर्बन्धकत्वेन क्वचिदन्यथापि प्रवृत्तिरस्य १. एवं च-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org