________________
. २०२
योगबिन्दु सूत्र : १९६-१९७ एवं च सर्वस्तद्योगादयमात्मा तथा तथा ।
भवे भवेदतः सर्वप्राप्तिरस्याऽविरोधिनी ॥१९६॥ एवं च-प्रकृतिभेद आत्मनः परिणामनानात्वसांगत्ये सति, पुनः किं स्यादित्याह सर्व:'-निरवशेषः, तद्योगात्'-प्रकृतिसंयोगात्कथंचिदैक्यापत्तिलक्षणात्, 'अयं'-अपुनर्बन्धकाद्यवस्थाभाक् 'आत्मा'-जीव: 'तथा तथा'नरनारकादिपर्यायभाक्त्वेन, भवे-संसारे ‘भवेत्'-स्यात् 'अत:'-तथा तथा भवनात् 'सर्वप्राप्तिः'-संसारापवर्गावस्थालाभरूपा 'अस्य'-आत्मनः 'अविरोधिनी'-अविघटमाना सम्पद्यते। प्रकृतियोगात्तस्य संसारावस्था विप्रयोगाच्च मुक्तावस्थेति भावः ॥१९६॥
सांसिद्धिकमलाद् यद्वा, न हेतोरस्ति सिद्धता ।
तद्भिन्नं यदभेदेऽपि, तत्कालादिविभेदतः ॥१९७॥ . सांसिद्धिकमलात्-कर्मबन्धयोग्यतालक्षणादनादिस्वभावात्, सांसिद्धिकमलं परिहत्येत्यर्थः, 'यद्वा' इत्यूहस्यैव पक्षान्तरसूचक: न-नैव हेतोरन्यस्येश्वरानुग्रहादेः, परिणामचित्रतायां साध्यायां 'सिद्धता'-प्रमाणप्रतिष्ठितता ।
ईश्वरो ह्यप्रतिस्खलितवैराग्यवान्, यतः पठ्यते-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥" ततः कथमसौ कंचनानुगृह्णीयान्निगृह्णीयाद्वा ? किं चासौ योग्यतामपेक्ष्य प्रवर्तत इतरथा वेति द्वयी गतिः। किं चातः? यदि प्रथमः पक्षः, तदा सैव योग्यता हेतुः, किमीश्वरानुग्रह-निग्रहाभ्याम् ? अथेतरथा, तदा सार्वत्रिकावेवानुग्रहनिग्रहौ स्यातां न वा क्वचित्, निमित्ताभावात् । यतः पठ्यते-" नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥१॥" (प्र. वार्तिक ३-३४) इति सांसिद्धिकमलमेवात्मनां परिणामवैचित्र्यहेतुः ।
अत्र हेतुः तत्-सांसिद्धिकमलम् 'भिन्नं'-नानारूपम् यद्यस्मात्कारणात् 'अभेदेऽपि'-कथंचित्सामान्यरूपतया, एतदपि कुत इत्याह तत्कालादिविभेदतः'ते शास्त्रान्तरप्रसिद्धा ये कालादयः कालस्वभावनियतिपूर्वकृतपुरुषकारलक्षणा हेतवः सर्वजगत्कार्यजनकाः, तेषां विभेदतो वैसदृश्यात् । इदमुक्तं भवति१. प्रकृतियोगात् तास्ता:-AB.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org