________________
योगबिन्दु सूत्र : १९४-१९५
'ऊहते'-वितर्कयति अयं अपुनर्बन्धकः अतो विशिष्टमतिसाङ्गत्यात् 'प्रायो' - बाहुल्येन । कथमित्याह ' भवबीजादिगोचरं ' - भवबीजं -भवकारणम् आदिशद्वात् भवस्वरूपं भवफलं च गृह्यते । यथा " एस णं अणाइ जीवे अणाइ जीवस्स भवे अणाइकम्मसंयोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुबन्धित्ति" (पंचसूत्र १) । ततो भवबीजादिगोचरो यत्र तत्तथा, क्रियाविशेषणमेतत्, अथवा भवबीजादि-गचरोविषय ऊहनीयतया भवबीजादिगोचरस्तम् । अत्र दृष्टान्तः कान्तादिगतगेयादि कान्ता - वल्लभा आदिशब्दात्तदन्य' गायनादिग्रहः, तद्गतं तत्प्रतिबद्धं यद्गेयं गीतम्, आदिशब्दाद्रूपरसादिशेषेन्द्रियविषयग्रहः । तथा तत्प्रकारो गेयाद्यूहयोग्य: भोगी, स इव सुन्दरं मनोहारीन्द्रियविषयस्थानमागतमिति, यथा विचक्षणो भोगी सुन्दरं कान्तादिगतगेयाद्यूहते, तथाऽयं भवबीजादिकमिति भावः ॥१९४॥
यथोहते तथैवाह
प्रकृतेर्भेदयोगेन, नासमो नाम आत्मनः ।
हेत्वभेदादिदं चारु, न्यायमुद्रानुसारतः ॥ १९५॥
प्रकृतेः- परपरिकल्पितायाः सत्त्वरजस्तमोरूपायाः, स्वप्र े क्रियया ज्ञानावरणादिलक्षणायाः भेदयोगेनैकान्तेनैव भेदेनेत्यर्थः न-नैव असमो-विसदृशो, नामः - परिणामश्चैतन्यश्रद्धानोन्मीलनादिकः प्रत्यक्षत एवोपलभ्यमानः, आत्मनोजीवस्य स्यात्, किं तु सर्वजीवानां सर्वदैव सम एव प्राप्नोति, कुत इत्याह हेत्वभेदात्- हेतोः प्रकृतिलक्षणस्याऽभेदात् अनानात्वात् न ह्यभिन्ने हेतौ क्वचिदपि फलभेद उपपद्यत इति कृत्वा, इदमेकान्तेनैव प्रकृतिभेदेषु आत्मनः पररणामवैसादृश्यांसाङ्गत्यलक्षणं वस्तु चारु सङ्गतं वर्तते । कुत इत्याह 'न्यायमुद्रानुसारतः '- न्यायस्य न्याय एव वा मुद्रा कृतप्रयत्नैरपि परैरनुल्लङ्घनीयत्वाद्राजादिमुद्रावत्तस्या अनुसारतोऽनुवर्तनात् । तथाहि-यदि प्रकृतिभेदे सत्यपि परिणामनानात्वमात्मन इष्यते, तदा मुक्तानामपि प्राप्नोति, संसारिणां मुक्तानामपि च प्रकृतिभेदाऽविशेषात् ॥ १९५ ॥
१. गाथकादिग्रह: - A २. क्रियया च ज्ञाना-A.B. ;
Jain Education International
२०१
For Personal & Private Use Only
www.jainelibrary.org