________________
२०० योगबिन्दु सूत्र : १९०-१९१-१९२-१९३-१९४ पुनः 'कुरूपस्य' तु पुंसः 'स्वयोषिति' स्वस्त्रियामिति ॥१९०॥ ततश्च
अभिमानसुखाऽभावे, तथा क्लिष्टान्तरात्मनः ।
अपायशक्तियोगाच्च, न हीत्थं भोगिनः सुखम् ॥१९१॥ अभिमानसुखाभावे-'ऽहं सुखी'त्येवं चित्तप्रतिपत्तिरूपलक्षणस्याभिमानसुखस्याभावे सति तथा' इति विशेषणसमुच्चये, क्लिष्टान्तरात्मनो-ऽपूर्यमांणेच्छत्वेन साबाधचित्तस्य अपायशक्तियोगाच्च-अपायस्य निर्वाहशरीरव्यवच्छेदरूपस्य दरिद्राऽयौवनस्थयोः कुरूपस्य वा रुचिमत्स्त्रीकृतोच्चाटनादेर्या शक्तिर्योग्यता तस्या योगात्सम्बन्धात्, च: समुच्चये, किमित्याह न हि-नैव, इत्थं-अनाढ्यत्वादिविशिष्टस्य, 'भोगिनः सुखं' भोगजं यद्विचक्षणैर्मुग्यत इति ॥१९१ ॥ यथा च तद्भोगसुखमनुष्ठानं च दृष्टान्तदाटन्तिकभावेन स्यातां तथाह
अतोऽन्यस्य तु धन्यादेरिदमत्यन्तमुत्तमम् । ..
यथा तथैव शान्तादेः, शुद्धानुष्ठानमित्यपि ॥१९२॥ अत:-प्रागुक्ताद् भोगिनः सकाशात् 'अन्यस्य तु'-अन्यप्रकारभाजः पुनः धन्यादेरुक्तरूपस्य भोगिनः । इदं-भोगसुखम् अत्यन्तमुत्तमं शेषभोगसुखातिशायि यथा स्यात् तथैव 'शान्तादे:'-शान्तोदात्तप्रकृतेः अनुष्ठानं' प्रस्तुतम् इत्यपी'दमपि ज्ञेयमिति ॥१९२॥ एवं सति यत्स्यात्तदाह
क्रोधाद्यबाधितः शान्तः उदात्तस्तु महाशयः ।
शुभानुबन्धिपुण्याच्च, 'विशिष्टमतिसङ्गतः ॥१९३॥ क्रोधाद्यबाधितः शान्तः, उदात्तस्तूदात्तः पुनः महाशयो-गाम्भीर्यादिगुणोपेतत्वेन महाचेताः ‘शुभानुबन्धिपुण्याच्च'-पुण्यानुबन्धिनः पुण्यात्सकाशात्पुनः ‘विशिष्टमतिसङ्गतो'-मार्गानुसारिप्रौढप्रज्ञानुगतः सन् ॥१९३॥ किमित्याह
ऊहतेऽयमतः प्रायो, भवबीजादिगोचरम् । कान्तादिगतगेयादि, तथा भोगीव सुन्दरम् ॥१९४॥
१. विशिष्टगुणसङ्गत:-C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org