SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : १८७-१८८-१८९-१९० तरुणः पुमान् ॥१८७॥ एतदेव व्यतिरेकत आह अनीदृशस्य च यथा, न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं, नाऽनुष्ठानं कदाचन ॥१८८॥ 'अनीदृशस्य 'च'-धन्यादिविशेषणविकलस्य पुनः 'यथा न भोगसुखं' शब्दादिविषयानुभवलक्षणम् 'उत्तमं'-प्रकृष्टम् । अशान्तादेरशान्तस्यानुदात्तस्य च तथा-भोगसुखवत् शुद्धं-निर्वाणावन्ध्यबीजकल्पं नाऽनुष्ठानं देवपूजनादि । 'कदाचन'-क्वचिदपि काले ॥१८८॥ तर्हि किं स्यादित्याशंक्याह मिथ्याविकल्परूपं तु, द्वयोर्द्वयमपि स्थितम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः ॥१८९॥ 'मिथ्याविकल्परूपं तु'-मरुमरीचिकादिषु मुग्धमृगादीनां जलादिप्रतिभासाकारं पुनः, द्वयोरुक्तविलक्षणयोर्भोगिंधार्मिकयोः द्वयमपि-भोगसुखानुरूपं किं पुनरेकैकमित्यपिशब्दार्थः ‘स्थितं'-प्रतिष्ठितम् । किमुक्तं भवति 'स्वबुद्धिकल्पनाशिल्पिनिर्मितम्'-स्वबुद्धिकल्पना-स्वच्छन्दमतिविकल्परूपा सैव 'शिल्पी'-वैज्ञानिकस्तेन निमि पटितम् । न तु-न पुनः तत्त्वत:-परमार्थतः तद्भोगसुखं धर्मानुष्ठानं चेति ॥१८९ ॥ तद्भावनार्थमाह- भोगाङ्गशक्तिवैकल्यात्, दरिद्राऽयौवनस्थयोः। सुरूपरागाशङ्के च, कुरूपस्य स्वयोषिति ॥१९॥ इह भोगाङ्गानि रूपादीनि वात्स्यायनोक्तानि । यदाह वात्स्यायन:"रूपवयोवैचक्षण्यसौभाग्यमाधुर्यैश्वर्याणि भोगसाधनम् इति, तत्रापि रूपवयोवित्तान्यत्वानि प्रधानानि इति । एतदेव त्रितयमपेक्ष्याह-भोगाङ्गशक्तिवैकल्यात् भोगाङ्गानां रूपादीनां 'शक्तेर्भोगासेवनलक्षणाया वैकल्यमभावः ॥ दरिद्राऽयौवनस्थयोर्दरिद्रस्य भोगाङ्गविरहोऽयौवनस्थस्य त्वशक्तिरिति । सुरूपरागाशङ्के च'-सुरूपे भोक्तुमारब्धे स्त्रीगते सुन्दरे संस्थाने रागोऽभिष्वङ्गातिरेकः, आशङ्का च स्त्रीगतानुरागसन्देहरूपा तस्मिन्, ततः सुरूपरागश्चाशङ्का च सुरूपरागाशङ्के १. तु-A; २. 'च' AB.C. प्रतिषु नास्ति ३. स्यादित्याह-AB.; ४. एतद्भावनार्थमाह-AB.C.; १. शक्लेवभोगा-A Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy