________________
-
यागाचा
१९८ योगबिन्दु सूत्र : १८४-१८५-१८६-१८७ ___ 'संक्लेशाऽयोगतो भूयः'-पुनरपि तीव्रसंक्लेशाऽयोगेन कल्याणांगतया चोत्तरोत्तरभववैराग्यादिकल्याणनिमित्त'भावेन च यद्यस्माद्वर्तते या सा तस्मात्तात्त्विकी-वास्तवरूपा, प्रकृति:-स्वभावलक्षणा धर्मार्हजीवस्य ज्ञेया । तदन्या तु-तस्या अन्या पुनः प्रकृति: 'उपचारत:'-उपचरितरूपा, तात्त्विकप्रकृतिविलक्षणत्वात्तस्याः ॥१८४॥
एना चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते ।
ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः ॥१८५॥ एनां चैनामेव तात्त्विकी प्रकृतिं आश्रित्यापेक्ष्य 'शास्त्रेषु'-योगप्रतिबद्धषु 'व्यवहार:'-पूर्वसेवादिः 'प्रवर्तते'-प्रज्ञापनीयतामेति 'ततश्च'-तस्मादेव हेतोः 'अधिकृतं पूर्वसेवालक्षणं 'वस्तु'-तात्त्विकम् नान्यथा-ऽपुनर्बन्धकं व्यतिरिच्य इति 'स्थितं'-प्रतिष्ठितम् हि-स्फुटम् 'अदः' एतत् ॥१८५॥
शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् ।
सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् ॥१८६॥ 'शान्त'स्तथाविधेन्द्रियकषायविकारविकलः, उदात्त' उच्चोच्चतराद्याचरणस्थितिबद्धचित्तः, ततः शान्तश्चासावुदात्तश्च शान्तोदात्तस्तस्य भावस्तत्त्वम् अत्रैव'प्रोक्तप्रकृतौ सत्यां जायते 'शुद्धानुष्ठानसाधनं'-'निरवद्याचरणकारणम् । तथा 'सूक्ष्मभावोहसंयुक्तं'-बन्धमोक्षादिनिपुणभावपर्यालोचनयुतम् । अत एव तत्त्वसंवेदनानुगं'-तत्त्वसंवेदनसंज्ञितज्ञानविशेषसमन्वितम् ॥१८६॥
ततः
शान्तोदात्तः प्रकृत्येह, शुभभावाश्रयो मतः ।
धन्यो भोगसुखस्येव, वित्ताढ्यो रूपवान् युवा ॥१८७॥ 'शान्तोदात्त' उक्तरूपः 'प्रकृत्या' स्वभावेन इह-जने 'शुभभावाश्रयः'परिशुद्धचित्तपरिणामस्थानम् 'मतो' जन्तुः । अत्र दृष्टान्तमाह धन्य:-सौभाग्यादेयतादिना धनार्हः ‘भोग सुखस्येव'-शब्दरूपरसगन्धस्पर्शसेवालक्षणस्य यथाऽऽश्रयः वित्ताढ्यो-विभवनायक: 'रूपवान्'-शुभशरीरसंस्थान: 'युवा'
१. भावेन वा-A; २. निरवद्याचार-AB.C.; ३. सुखस्येह-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org