________________
योगबिन्दु सूत्र : १८१-१८२-१८३-१८४
शुद्ध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा । गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् ॥ १८१ ॥ शुद्ध्यच्छुद्धिमनुभवत्क्षारमृत्पुटपाकादिसंयोगेन लोके-व्यवहारार्हजनमध्ये यथा रत्नं-पद्मरागादि जात्यं - अकृत्रिमम् 'काञ्चनमेव वा' - चामीकरं वा, गुणैः - कान्त्यादिभिः संयुज्यते-संश्लिष्यति चित्रैर्नानाविधैस्तदुचितैः, तद्वद्रत्नकाञ्चनवत् आत्मापि जीवः शुद्ध्यत् किं पुना रत्नकाञ्चनं इत्यपिशब्दार्थः, दृश्यतां ऊहापोहचक्षुषावलोक्यतामिति ॥१८१ ॥ अत्रैव मतान्तरमाह
तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते ।
आलोचनाद्यभावेन तथानाभोगसङ्गताम् ॥१८२॥
सा वक्ष्यमाणविशेषणानुरूपा या प्रकृतिः स्वभावस्तया 'शेषस्य'सकृद्बन्धकादेः केचिच्छास्त्रकाराः एनां पूर्वसेवां प्रचक्षते - व्याकुर्वते, न पुनः सर्वे, कीदृशीमित्याह 'आलोचनाद्यभावेन' - आलोचनस्योहस्यादिशब्दादपोहस्य च निर्णयस्य मार्गविषयस्याभावेन, 'तथानाभोगसङ्गतां' तथा तत्प्रकारः कथंचिदपि भवस्वरूपाऽनिर्णायको योऽनाभोग उपयोगाभावस्तत्सङ्गतां, पूर्वं कारणभावेनोपचरितत्वमुक्तमत्र चानाभोगद्वारेणेति ॥ १८२ ॥
एतदेव समर्थयमान आह
संक्लेशाऽयोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिर्ज्ञेया तदन्या तूपचारतः ॥ १८४॥
१९७
युज्यते चैतदप्येवं तीव्रे मलविषे न यत् । तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते ॥ १८३॥
-
'युज्यते च ' - घटत एव एतदप्यनन्तरोक्तं वस्तु, किं पुन: परंपरोक्तमित्यपिशब्दार्थः ‘एवं' - यथा केचित्प्रचक्षते । अत्र हेतुः - तीव्रेऽत्यन्तमुत्कटे, मलविषे कर्मबन्धयोग्यतालक्षणे न-नैव यद्यस्मात् तदावेगो मलविषावेगः किंरूप इत्याह भवासङ्गः - संसारप्रतिबन्धः तस्य - शेषजीवस्य उच्चैः - अत्यन्तं विनिवर्तते । मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यादित्यौपचारिक्येव शेषस्य पूर्वसेवेति स्थितम् ॥१८३॥
अथ यां प्रकृतिमाश्रित्य पूर्वसेवा स्यात्तां तद्विपर्ययं चाह
Jain Education International
For Personal & Private Use Only
—
www.jainelibrary.org