________________
. १९६
__ योगबिन्दु सूत्र : १७९-१८० अद्यापि तथाविधभववैराग्याभावात्तस्य । ___इह केचिन्मार्गपतितमार्गाभिमुखावपि शेषशब्देनाहुः । तच्च न युज्यते, अपुनर्बन्धकावस्थाविशेषरूपत्वात्तयोरपुनर्बन्धकग्रहणेनैव गतत्वात्, यतो ललितविस्तरायां मार्गलक्षणमित्थमुक्तम्-इह मार्गश्चेतसोऽवक्रगमनं 'भुजंगमनलिकायानतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेष इति, तत्र प्रविष्टो मार्गपतितः मार्गप्रवेशयोग्यभावापत्रो मार्गाभिमुखः । एवं च नैतावपुनर्बन्धकावस्थायाः पर-परतरावस्थाभाजौ वक्तुमुचितौ, भगवदाज्ञावगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् । यथोक्तं तत्र-" इयं च भागवती सदाज्ञा सर्वैवापुनर्बन्धकादिगम्या । अपुनर्बन्धकादयो ये सत्त्वा उत्कृष्टां कर्मस्थितिं तथाऽपुनर्बन्धकत्वेन क्षपयन्ति, ते खल्वपुनर्बन्धकाः । आदिशब्दान्मार्गपतित-मार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञालोचनादिगम्यलिंगाः (लिङ्गगम्याः) ।" एतद्गम्येयं न संसाराभिनन्दिगम्येति । संसाराभिनन्दिनश्चापुनर्बन्धकप्रागवस्थाभाजो जीवा इति ॥१७९ ॥
ननूपचरितं वस्त्वेव न भवति, तत्कथमुपचारतः शेषस्य पूर्वसेवा स्यादित्याशंक्याह
कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः ।।
नासन्नोऽप्यस्य बाहुल्यादन्यथैतत्प्रदर्शकः ॥१८०॥ कृतश्च-कृतः पुनरिह अस्याः पूर्वसेवायाः उपन्यासः-प्रज्ञापनारूप: शेषापेक्षोऽपि-अपुनर्बन्धकभावासनजीवानाश्रित्य कार्यतो-भाविनी भावरूपां पूर्वसेवामपेक्ष्य 'नड्वलोदकं पादरोग' इत्यादिदृष्टान्तात्, यतः न-नैव आसन्नोऽपि-समीपवर्त्यपि जीवः, अस्याऽपुनर्बन्धकभावस्य किं पुनरयमेवेत्यपि शब्दार्थः, बाहुल्यात्प्रायेण अन्यथाऽपुनर्बन्धा(बन्धका)चारविलक्षणो वर्तत इति एतस्यार्थस्य प्रदर्शको-ख्यापकः । न हि मृत्पिण्डादि कारणं कार्याद्धटादेर्बाहुल्येन वैलक्षण्यमनुभवद् दृश्यते, किं तु कथंचित्तुल्यरूपतामिति ॥१८० ॥
इदमेवाधिकृत्याह
१. भुजग-A.B.C.; २. परतरा-AB.C.; ३. यः स-AB.C
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org