SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : १७५-१७६-१७७-१७८-१७९ आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन ॥१७६ ॥ आसन्ना चाभ्यर्णवर्तिन्येव इयं-मुक्तिः अस्योच्चैरतीव चरमावर्तिन:चरमपुद्गलपरावर्तभाजो जीवस्य, यतः-कारणात् भूयांसोऽतीवबहवः अमी आवर्ताः व्यतिक्रान्ता:-अनादौ संसारे व्यतीताः । तत्-तत: एकोऽपश्चिमः अत्र-जगति 'न किञ्चन'-न किंचिद्भयस्थानमेष इत्यर्थः ॥१७६ ॥ अत एव च योगज्ञैरपुनर्बन्धकादयः । भावसारा विनिर्दिष्टास्तथापेक्षादिवर्जिताः ॥१७७॥ 'अत एव च'-मुक्त्यासन्नभावादेव च योगज्ञैः-शास्त्रकारैः अपुनर्बन्धकादयो-ऽपुनर्बन्धकसम्यग्दृष्टिचारित्रिणो धर्माधिकारिणः भावसारास्तत्त्वपरिणतिप्रधाना: विनिर्दिष्टा:-प्रज्ञप्ता:,-तथा इति विशेषणसमुच्चये ।अपेक्षादिवर्जिताउक्तरूपापेक्षानाभोगरहिताः ॥१७७॥ अपुनर्बन्धकप्रभृतिकत्वाद्धर्माधिकारिणाम् तमेवादौ व्याचष्टे भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः ॥१७८ ॥ भवाभिनन्दिदोषाणां-"क्षुद्रो लाभरतिर्दीनो मत्सरी'(श्लो.८७)त्यादिना प्रागेवोक्तानां प्रतिपक्षगुणैरक्षुद्रतानिर्लोभतादिभिर्युतो 'वर्धमानगुणप्रायो'-वर्धमाना शुक्लपक्षक्षपापतिमण्डलमिव प्रतिकलमुल्लसन्तो गुणा औदार्यदाक्षिण्यादयः प्रायो बाहुल्येन यस्य स तथा, अपुनर्बन्धको-धर्माधिकारी मतोऽभिप्रेत: ॥१७८॥ . . . अस्यैषा मुख्यरूपा स्यात् पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ॥१७९॥ अस्या-ऽपुनर्बन्धकस्य, एषा-प्रागुक्ता, मुख्यरूपा-निरुपचरिता स्याद् भवेत् पूर्वसेवा देवादिपूजारूपा यथोदिता यत्प्रकारा निरूपिता प्राक् कल्याणाशययोगेन-मनाग्मुक्त्यनुकूलशुभभावसम्बन्धेन, शेषस्यापि-अपुनर्बन्धकापेक्षया विलक्षणस्य सकृबन्धकादेः उपचारत-औपचारिकी पूर्वसेवा स्यात्, पूर्वसेवा दवाबत्यनुकूलशुभारत-औपच Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy