________________
योगबिन्दु सूत्र : १७२-१७३-१७४-१७५
न - नैव अत एव - विनिवृत्ताग्रहत्वादेव, अणवो - ज्ञानावरणादिकर्माणवः तस्य चरमपुद्गलपरावर्तवर्तिनो जन्तोः प्राग्वत् प्राच्यपरावर्तेष्विव । संक्लेशहेतवोमालिन्यनिबन्धना जायन्ते ' तथा ' इति हेत्वन्तरसमुच्चये । अन्तस्तत्त्वसंशुद्धेरन्तस्तत्त्वमात्मा तस्य 'संशुद्धेः '-स्वभावभूतमलक्षयात्, य 'उदग्र' उत्कटः, शुभो भावस्तस्मात् ॥१७२ ॥ अयं चास्य तथाविधकर्मबन्धो भवन्नपि न तथाविधभयाय सम्पद्यत इति दर्शयन्नाह -
१९४
सत्साधकस्य चरमा समयाऽपि बिभीषिका । न खेदाय यथात्यन्तं तद्वदेतद्विभाव्यताम् ॥ १७३ ॥ सत्साधकस्य-तथाविधां विद्यां सम्यक्साधयितुं प्रवृत्तस्य पुंसः चरमापर्यन्तवर्तिनी समयापि सन्निहिताऽपि, बिभीषिका - वेतालादिदर्शनरूपा न खेदायश्रमाय यथाऽत्यन्तं - अतीव, तद्वत्साधकचरमबिभीषिकावत् एतच्चरमावर्तकर्मबन्धरूपवस्तु विभाव्यतां विमृश्यताम् । विवेकवतां प्रधानानागतवस्तुप्रतिबन्धाच्चेतस इति ॥ १७३ ॥ दृष्टान्तमेवाधिकृत्याह
सिद्धेरासन्नभावेन यः प्रमोदो विजृम्भते ।
चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् ॥१७४॥ सिद्धेर्विद्याविवशीभावस्य आसन्नभावेन - सन्निहितत्वेन 'य: ' कश्चिन्निर्देष्टुमशक्य: प्रमोदो-हर्षः विजृम्भते - समुच्छलति चेतस्यन्तःकरणे अस्य सत्साधकस्य 'कुतः 'कस्माद्धेतोः तेन- प्रमोदविजृम्भणेन' खेदोऽपि ' यः प्रागत्यसद्रूपतयोक्तः, प्रमोदस्तावज्जृम्भत एवेत्यपिशब्दार्थः लभते प्राप्नोति, अन्तरं अवकाशमिति ॥१७४॥ अथ दान्तिकमधिकृत्यैतद्विशेषमाह
न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न च । मुक्तिः पुनर्द्वयोपेता सत्प्रमोदास्पदं ततः ॥ १७५ ॥ न च - नैव इयं विद्यादिविषया महतो - गरीयसः अर्थस्य - साध्यस्य सिद्धिरुक्तरूपा आत्यन्तिकी - अत्यन्तभवा' न च', भूत्वापि पुनर्विनाशात् 'मुक्तिः पुनर्द्वयोपेता' महदात्यन्तिकभावयुक्ता 'सत्प्रमोदास्पदं' सतः सर्वातिशायिनः प्रमोदस्य स्थानम् ततो- द्वयोपेतत्वाद्धेतोरिति ॥ १७५ ॥
ननु सन्निहितायां मुक्तौ स्यादेतत्परं तत्सन्निधानमप्यसंभाव्यमित्याशंक्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org