Book Title: Gommatasara Karma kanad Part 2
Author(s): Nemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 764
________________ ५ ܕ १५ २० २५ ३० १३९२ गो० कर्मकाण्डे नाभेयमजितं देवं शंभवं भवतारकं । घातिकर्म्मप्रणाशाय प्रणमाम्यहमादरात् ॥ अभिनंदनमानंदरूपं सुमतिमच्युतं । पद्मप्रभं प्रभुं वंदे रत्नत्रय विशुद्धये ॥ सुपामनघं चंद्रप्रभं त्रिभुवनाधिपम् । पुष्पदन्तं जगत्सारं वंदे तद्गुणसिद्धय ॥ शीतलं सुखसाद्भूत पुण्यमूत्ति नमाम्यहम् । श्रेयांसं वासुपूज्यं च केवलज्ञानसिद्धये ॥ विमलं निज्जितानंगं प्राप्तानंतचतुष्टयम् । अनंतं धर्मनाथं च वंदे स्वात्मोपलब्धये ॥ शांतिनाथं च कुंथुं च अरं चेशान्नमाम्यहम् । षट्खंडवसुषाच कधचक्र प्रणायकान् ॥ मल्ल सुव्रततीर्थेशं नम भक्त्या नमाम्यहम् । यथाख्यातगुणोपेतान्यथाख्यातप्रसिद्धये ॥ नेमिनाथं च पाश्वं च वर्द्धमानं जिनेश्वरम् । त्रिकालमभिवंवेऽहं नवक्षायिकलब्धये ॥ श्रीगुरुभ्यो नमः | श्रीमल्लिनाथाय नमः ॥ * ॥ * ॥ * ॥ श्रीमच्चौंडर सुपाध्याय सुपुत्र समंतभद्रदेवानां ग्रंथः परिसमाप्तोऽयं ॥ ज्ञाता घरघ्नागतवर्ष युक्ता पापोनितास्याच्छक काल संख्या । चालुक्ययुक्ता मुनिचित्समेता श्रीवर्द्धमानस्य समा भवेयुः ॥ श्रीमदृवंशसमुद्भवाः प्रविलसद्वृत्तोज्ज्वला निम्मंलाः प्रचित्कांतिभरास्सदाप्तरुचयो भव्याः सुसेव्याः सतां । ये ते लोक शिरोमणित्वमधिकं संप्राप्य मुक्तोपमा (मुक्ता इवाss ) भांतु स्वात्यमलामृतोदय भवैर्भास्वद्गुणैर्भूषिताः ॥ योऽस्य धर्मवृद्धयर्थं मह्यं सूरिपदं ददौ । भट्टारकशिरोरत्नं प्रभेन्दुः स नमस्यते ॥८॥ त्रिविद्यविद्याविख्यात विशालकीर्तिसूरिणा । सहायोऽस्यां कृतो चक्रेऽधीता च प्रथमं मुदा ॥ ९ ॥ सूरेः श्रीधर्मचन्द्रस्याभय चन्द्रगणेशिनः । वणिलालादिभव्यानां कृते कर्णाटवृत्तितः ॥१०॥ रचिता चित्रकूटे श्री पार्श्वनाथालयेऽमुना । साघसांगासहेसाभ्यां प्रार्थितेन मुमुक्षुणा ॥११॥ तत्र श्रीमज्जिनधर्माम्बुधिवर्धनपूर्णचन्द्रायमानश्रीज्ञानभूषणभट्टारक शिष्येण सौगतसांख्य कणादभिक्ष्विक्षुपादप्रभाकरादिपरवादिगज गंडमेड प्रभाचन्द्रभट्टारकदत्ताचार्यपदेन श्रविद्यविद्या परमेश्वर मुनि चन्द्रा वार्यमुखात् कर्णाटदेशाधिनाथप्राज्य साम्राज्यलक्ष्मीनिवास जैनोत्तम मल्लिभूपालयत्नादधीतसिद्धान्तेन वर्णिला - लाविहिताग्रहाद् गौर्जर देशा च्चित्रकूट जिनदास साह निर्मापितपार्श्वप्रभुप्रासादाधिष्ठितेनामुना नेमिचन्द्रेणाल्पमेधसाऽपि भव्यपुण्डरीकोपकृतीहानुरोधेन सकलज्ञातिशेखराय माणखंडेलवाल कुलतिलक - साधुवंशावतंसजिनधर्मोद्धरणधुरीण साहसांग साहसहसाविहितप्रार्थनाधीनेन विशदत्रैविद्यविद्यास्पदविशालकीर्ति सहाया दियं यथाकर्णाटवृत्ति व्यरचि । Jain Education International यावच्छ्रीजिनधर्मश्चन्द्रादित्यो चविष्टपं सिद्धाः । तावन्नन्दतु भव्यैः प्रपाठ्यमाना स्वियं वृत्तिः ॥ निग्रन्थाचार्यवर्येण विद्यचक्रवर्तिना । संशोध्याभयचन्द्रेणा लेखि प्रथमपुस्तकः ॥ ॥ इत्यभयनन्दिनामाङ्कितायाम् ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828