________________
५
ܕ
१५
२०
२५
३०
१३९२
गो० कर्मकाण्डे
नाभेयमजितं देवं शंभवं भवतारकं । घातिकर्म्मप्रणाशाय प्रणमाम्यहमादरात् ॥ अभिनंदनमानंदरूपं सुमतिमच्युतं । पद्मप्रभं प्रभुं वंदे रत्नत्रय विशुद्धये ॥ सुपामनघं चंद्रप्रभं त्रिभुवनाधिपम् । पुष्पदन्तं जगत्सारं वंदे तद्गुणसिद्धय ॥ शीतलं सुखसाद्भूत पुण्यमूत्ति नमाम्यहम् । श्रेयांसं वासुपूज्यं च केवलज्ञानसिद्धये ॥ विमलं निज्जितानंगं प्राप्तानंतचतुष्टयम् । अनंतं धर्मनाथं च वंदे स्वात्मोपलब्धये ॥ शांतिनाथं च कुंथुं च अरं चेशान्नमाम्यहम् । षट्खंडवसुषाच कधचक्र प्रणायकान् ॥ मल्ल सुव्रततीर्थेशं नम भक्त्या नमाम्यहम् । यथाख्यातगुणोपेतान्यथाख्यातप्रसिद्धये ॥ नेमिनाथं च पाश्वं च वर्द्धमानं जिनेश्वरम् । त्रिकालमभिवंवेऽहं नवक्षायिकलब्धये ॥ श्रीगुरुभ्यो नमः | श्रीमल्लिनाथाय नमः ॥ * ॥ * ॥ * ॥ श्रीमच्चौंडर सुपाध्याय सुपुत्र समंतभद्रदेवानां ग्रंथः परिसमाप्तोऽयं ॥ ज्ञाता घरघ्नागतवर्ष युक्ता पापोनितास्याच्छक काल संख्या । चालुक्ययुक्ता मुनिचित्समेता श्रीवर्द्धमानस्य समा भवेयुः ॥ श्रीमदृवंशसमुद्भवाः प्रविलसद्वृत्तोज्ज्वला निम्मंलाः प्रचित्कांतिभरास्सदाप्तरुचयो भव्याः सुसेव्याः सतां । ये ते लोक शिरोमणित्वमधिकं संप्राप्य मुक्तोपमा (मुक्ता इवाss ) भांतु स्वात्यमलामृतोदय भवैर्भास्वद्गुणैर्भूषिताः ॥
योऽस्य धर्मवृद्धयर्थं मह्यं सूरिपदं ददौ । भट्टारकशिरोरत्नं प्रभेन्दुः स नमस्यते ॥८॥ त्रिविद्यविद्याविख्यात विशालकीर्तिसूरिणा । सहायोऽस्यां कृतो चक्रेऽधीता च प्रथमं मुदा ॥ ९ ॥ सूरेः श्रीधर्मचन्द्रस्याभय चन्द्रगणेशिनः । वणिलालादिभव्यानां कृते कर्णाटवृत्तितः ॥१०॥ रचिता चित्रकूटे श्री पार्श्वनाथालयेऽमुना । साघसांगासहेसाभ्यां प्रार्थितेन मुमुक्षुणा ॥११॥
तत्र श्रीमज्जिनधर्माम्बुधिवर्धनपूर्णचन्द्रायमानश्रीज्ञानभूषणभट्टारक शिष्येण सौगतसांख्य कणादभिक्ष्विक्षुपादप्रभाकरादिपरवादिगज गंडमेड प्रभाचन्द्रभट्टारकदत्ताचार्यपदेन श्रविद्यविद्या परमेश्वर मुनि चन्द्रा वार्यमुखात् कर्णाटदेशाधिनाथप्राज्य साम्राज्यलक्ष्मीनिवास जैनोत्तम मल्लिभूपालयत्नादधीतसिद्धान्तेन वर्णिला - लाविहिताग्रहाद् गौर्जर देशा च्चित्रकूट जिनदास साह निर्मापितपार्श्वप्रभुप्रासादाधिष्ठितेनामुना नेमिचन्द्रेणाल्पमेधसाऽपि भव्यपुण्डरीकोपकृतीहानुरोधेन सकलज्ञातिशेखराय माणखंडेलवाल कुलतिलक - साधुवंशावतंसजिनधर्मोद्धरणधुरीण साहसांग साहसहसाविहितप्रार्थनाधीनेन विशदत्रैविद्यविद्यास्पदविशालकीर्ति सहाया दियं यथाकर्णाटवृत्ति व्यरचि ।
Jain Education International
यावच्छ्रीजिनधर्मश्चन्द्रादित्यो चविष्टपं सिद्धाः । तावन्नन्दतु भव्यैः प्रपाठ्यमाना स्वियं वृत्तिः ॥ निग्रन्थाचार्यवर्येण विद्यचक्रवर्तिना ।
संशोध्याभयचन्द्रेणा लेखि
प्रथमपुस्तकः ॥
॥ इत्यभयनन्दिनामाङ्कितायाम् ॥
For Private & Personal Use Only
www.jainelibrary.org