Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यायाः कर्म न भवति अकारवरूपसाक्षात्कारात् न निबध्यते नापि तत्कार्येणाधर्मफलेन संबध्यते अत्र नाहंकृतोभावइत्यस्य फलं न हन्तीति बुद्धिर्न लिप्यतइत्यस्य फलं न निबध्यतहानि अनेन च कर्मालेपप्रदर्शने तिशयमात्रमतं नतु सर्वप्राणिहननं संभवनि हत्वापीति कत्याभ्यनुज्ञाबाधितकर्तत्वदृष्ट्या लौकिक्या न हन्तीति कर्तृत्वनिषेधः शाखीयया परमार्थदृष्टयेति न विरोधः शास्त्रादौ नायं हन्ति न हन्यते इति सर्वकर्मासंस्पर्शित्वमात्मनः प्रतिज्ञाय न जायतइत्यादिहेतुवचनेन साधयित्वा वेदाविनाशिनमित्यादिना विदुषः सर्वकर्माधिकारनिवात्तः सहेपेणोक्ता मध्ये च तेन तेन प्रसङ्गेन प्रसारितह शास्त्रार्थतावत्वप्रदर्शनायोपसंहृता नहन्ति न निबध्यतइति एवं चाविद्याकल्पितानामधिष्टानाद्यनात्मकृतानां सर्वेषामपि कर्मणामात्मविद्यया समच्छेदोपपत्तेः परमार्थसंन्यासिनां अनिष्टादित्रिविध || कर्म न भवतीत्युपपन्नं परमार्थसंन्यासचाकत्मिसाक्षात्कारएव जनकादीनामेतादृशसंन्यासित्वेऽपि बलवत्प्रारब्धकर्मवशात बाधि| तानवन्या परपरिकल्पनया वा कर्मदर्शन न विरुद्धं परहेसानामीदृशानां भिक्षाटनादिवत् अतएव ज्ञानफलभूतोविद्वत्संन्यासउच्यते | साधनभूतस्तु विविदिषासंन्यासोनेवविधोऽपि प्रथममुत्तरकाले ज्ञानोत्पत्तावेवांविधोभवतीति वक्ष्यते // 17 // पूर्वमधिष्ठानादिपञ्चकस्य क्रियाहेर त्वेनात्मनः सर्वकर्मासंस्पर्शित्वमुक्तं संप्रति तमेवार्थ ज्ञानज्ञेयादिप्रक्रियारचनया चैगुण्यभेदव्याख्ययाच विवरीनुमुपक्रमते ज्ञान विषयप्रकाशक्रिया जयं तस्य कर्मपरिज्ञाता तस्याश्रयोभोक्तान्तःकरणोपाधिपरिकल्पितः एतेषां त्रयाणां सन्निपाते हि हानोपादादिसर्वकर्मारम्भः स्यादतएतत्त्रयं सर्वपां कर्मणां प्रवर्तकं तदेतदाह त्रिविधा कर्मचोदनेति प्रवर्तकमुच्यते चोदनेति क्रियायाः प्रवर्तकं वचनमाहुरिति शाबरे 'चोदनाचोपदेशश्च विधिश्चैकार्थवाचिनइति' भाट्टे च वचने क्रियाप्रवर्तकवचनत्वं यद्यपि चोदनापदशक्यतया प्रतीयते तथापि वचनत्वं विहाय प्रवर्तकमात्रामिह लक्ष्यते ज्ञानादिषु वचनत्वाभावात् एवं च प्रेरणीयत्वं प्रेरकत्वं चानात्मनएव नात्मनइत्यभिप्रायः | तथा करणं साधकतमं बाह्यं श्रोत्राद्यन्तरथं बुद्धयादि कर्मकर्तुरीप्सिततमं क्रियया ब्याप्यमानं उत्पाद्यमाप्यं विकार्य संस्कार्यच कर्ताच इतरकारकाप्रयोज्यत्वे सति सकलकारकाणां प्रयोक्ता क्रियायानिर्वतकश्चिदनियन्थिरूपइति त्रिविधस्त्रिप्रकारः कर्म संगृखते समवैत्योति कर्मसंग्रहः कर्माश्रयः चकारार्थादितिशब्दात् संप्रदानमपादानमधिकरणंच राशित्रयान्तर्भूतं एवं कारकषमेव त्रिविधं क्रियाया|श्रयोनतु कूटस्थआत्मेत्यर्थः कर्मप्रेरकस्य कश्रियस्य च कारकरूपत्वात्यैगुण्यात्मकत्वाचाकारकस्वभावोगुणातीतश्चात्मा ज्ञानं प्रेरणारूपं लिङ्गादिशब्दजन्यं ज्ञेयं तस्य ज्ञानस्य विषयत्वेन लिङ्गादिशब्दस्वरूपं प्रेरकं परिज्ञाता तस्य ज्ञानस्याश्रयः प्रेरणीयः इत्येवं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410