Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 260
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २२७ वा कर्म पश्चाजीव उत्पद्येते ?, युगपद्वा तौ द्वावपि उत्पद्येयाताम् ?, इति पक्षत्रयम् । तत्र पूर्व जीवः पश्चात्कर्मेत्याद्यपक्षस्तु अयुक्तः । यतो न कर्मणः पूर्व खरशृङ्गस्येवात्मनः संभवो युक्तोऽहेतुकत्वात् । इह ३ यदहेतुकं तन्न जायते, यथा खरशृङ्ग, यच्च जायते तन्निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति । अथ कर्मणः पूर्वमात्माऽनादिकालसिद्ध एवेति किं तस्य ६ सहेतुक-निर्हेतुकत्वचिन्तयेति चेत्तर्हि जीवस्य कर्मबन्धो न प्रामोति, अकारणत्वादाकाशस्येव । अथ निष्कारणोऽप्यसौ भवति तर्हि मुक्तस्याऽपि पुनः स भविष्यति निष्कारणत्वाविशेषात्ततश्च मुक्तावप्यना- ९ श्वासोऽथवा कर्मयोगाभावान्नित्यमुक्त एवाऽसौ भवेत् , यदि वा बन्धाभावे कस्तस्य मोक्षव्यपदेशः ? न ह्यस्य नभसो मुक्तव्यपदेशः कस्यापि संमतः, बन्धपूर्वकत्वान्मोक्षस्य, तस्मान्न पूर्व जीवः पश्चात्कम-१२ त्याद्यविकल्पः । अथ पूर्व कर्म पश्चाज्जीवो युगपद्वा द्वावपीति ? पक्षद्वयमपि न संभवति, तथा हि-न च जीवात्माकर्मणोऽपि समु. द्भवो युक्तः । कर्तुर्जीवस्य तदानीमभावादक्रियमाणस्य च कर्मत्वा-१५ योगान्निष्कारणश्चेत्कर्मसमुद्भवः स्यात्तर्हि अकारणजातस्याऽकारणत एव विनाशोऽपि स्यादिति । तथा युगपदुत्पत्तिभावे च प्रत्येकपक्षोक्ता दोषा वाच्याः, निर्हेतुकत्वात्प्रत्येकवदुभयस्यापि समुदितस्यानुत्पत्ति-१४ रित्यादि । न च युगपदुत्पन्नयोर्जीवकर्मणोरयं जीवः कर्ता इदं च ज्ञानावरणादिपुद्गलवृन्दं कर्मेति कर्तृ-कर्मभावो युज्यते, यथा लोके सव्येतरगोविषाणयोरिति । अथ द्वितीयो मूलविकल्पो न संभवति, २१ तथा हि-यदि अनादिरेव जीव-कर्मणोः सम्बन्धः स्यात्तर्हि मोक्षो न घटते, यस्माद्योऽनादिः संयोगः सोऽनन्तो दृष्टो यथा जीवाऽऽका-२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334