Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 288
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २५५ खभावस्य अमूर्त्तत्वे सति अमूर्तत्वं खीकरोषि चेदित्यर्थः, तर्हि अस्य खभावस्य कार्ये उत्पाद्यवस्तुविषये आकाशवत् अकर्तृताऽकर्तृत्वं स्याद् भवेत् , यथा आकाशमऽमूर्त्तत्वात् कस्यापि कार्यस्य न कारकं ३ तथाऽयमपि स्यादित्यर्थः । एवं सति हे महामते! हे महाबुद्धिभृत् ! ते तव प्रतिज्ञाते प्रतिज्ञाविषयीकृते खभावजन्योऽयं भवप्रपञ्च इत्येवंरूपे अर्थे विरोधो भवेत् । स्वभावस्याऽकर्तृत्वेन भवप्रपञ्चाऽजनकत्वा-६ दिति भावः ॥ ३१ ॥ अथ स्वभावमाश्रित्य विकल्पान्तरमाह- स्वभावो वस्तुधर्मश्चेत्तदाऽसौ यस्य वस्तुनः। ९ तच मूर्तममूर्त वेत्यत्राप्येषैव कल्पना ।। ३२॥ चेद्यदि खभावो न वस्तुविशेषः किं तु वस्तुनः कस्यचित्पदार्थस्य धर्मः परिणामोऽस्तीति, त्वं मन्यसे इति वाक्यविशेषः, तदा असौ १२ खभावो यस्य वस्तुनो धर्मः तद्वस्तु मूर्त वाऽथवाऽमूर्तमऽस्ति इत्यत्रापि पक्षे एषा अनन्तरोक्तैव कल्पना विचारणा ज्ञेयेति शेषः । चः पादपूरणे ॥ ३२ ॥ तां कल्पनामेव दर्शयति अमूर्त्तत्वे ह्यकर्तृत्वं मूर्तत्वे सिद्धसाध्यता । पुण्यपापस्वभावं यद्वस्तु कर्मप्रतिष्ठितम् ॥ ३३॥ १० हीति निश्चितं, स्वभावो यस्य वस्तुनो धर्मः तस्य वस्तुनोऽमूर्त्तत्वे सति खभावस्याऽकर्तृत्वं स्यात् , तस्य मूर्तत्वे सति सिद्धसाध्यता एव ।२० १ अत्र 'वस्तु कर्म प्रतिष्ठितम्' इति विश्लिष्टः काशीमुद्रितपाठो ह्युपेक्षणीय एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334