Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२७७
.... उप समीपे आधीयते स्थाप्यते यः स उपाधिः, आई अशुष्क यदिन्धनं समित् स एवोपाधिस्तस्य वशोऽधीनोऽग्निर्यथा धूमे धूमरूपे खविकारे कृष्णं श्यामं परीणामं परिणमनं इयर्ति प्राप्नोति । खभा-३ वात्स्वयं रक्तवर्णोऽपि पश्चादुपाधिवशात् कृष्णवर्णों भवतीत्यर्थः । तथैव तद्वदेव वयणवः प्रदीपाग्निपरमाणवः स्नेहक्षयात्तैलनिर्णाशात् विशीर्य खण्डशो भूत्वा कृष्णस्य भावः काय तेन तत्क्षणोत्पन्न-६ कृष्णत्वपरिणामेन तमोऽन्धकारं प्रति मिलन्ति । अध्याहारलभ्यप्रतेयोगे तम इति द्वितीया । अयं भावः-विध्याते प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यते एव, चि(प)रं चौसौ पुरस्ताद्य-९ नोपलभ्यते तत् सूक्ष्मसूक्ष्मतरपरिणामभावात् , यथाऽञ्जनस्य पवनेनापहियमाणस्य यत् कृष्णरज उड्डीयते तदपि परिणामसौक्ष्म्यान्नोपलभ्यते, न पुनरसत्त्वादिति ॥ २४ ॥ चित्ररूपश्च पुद्गलपरिणाम इति दर्शयन्नाहतथाहि निर्वाणदशेन्धनाणून गृह्णाति तद्गन्धगुणेन नासा ।
१५ द्रव्यत्वतस्तेन समस्तभावा
विनाशिनो नैव कदापि वाच्याः॥२५॥ तथाहि । तदेव पुद्गलपरिणामवैचित्र्यं दर्शयति-दशा वतिरेव १८ इन्धनं यस्य स दशेन्धनः प्रदीप इत्यर्थः । निर्वाणो विध्यातो यो दशेन्धनस्तस्य अणवः परमाणुपुद्गलास्तान् नासा नासिका गृह्णाति । केनेत्याह-तद्गन्धगुणेन तेषां विध्यातप्रदीपाणूनां यो गन्धगुणस्तेन,२१
१ अध्याहारेण लभ्यस्य 'प्रति'इत्युपसर्गस्य योगेनाऽत्र 'तमस्' इति शब्दस्य द्वितीया इत्यर्थः। २ असौ विकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334