Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
श्रीगौतमीयकाव्यं
२७८
तत्कालमेव तादृग्गन्धगुणपरिणतेरिति भावः । तेन कारणेन द्रव्यत्वतो द्रव्यत्वमङ्गीकृत्य समस्तभावाः सर्वपदार्थाः कदापि कस्मिन्नपि काले ३ विनाशिनो विनश्वरा नैव वाच्याः कथनीयाः । सर्वेषां भावानां पर्यायरूपतयाऽनित्यत्वेऽपि द्रव्यरूपतया नित्यत्वमेवेत्यर्थः । इदमत्र तात्पर्यम्-वायुः स्पर्शनेन्द्रियस्यैव ग्राह्यः, रसो रसनस्यैव, गन्धो प्राण६ स्यैव, रूपं चक्षुष एव, शब्दस्तु श्रोत्रस्यैव ग्राह्यः, तदेवं यथा वायव्यादयः पुद्गला एकैकस्य प्रतिनियतस्यैवेन्द्रियस्य ग्राह्या भूत्वा पश्चात्परिणामान्तरं किमप्यापन्ना इन्द्रियान्तरग्राह्या अपि भवन्तीति ९ खयमेवावगम्यते । तथा प्रस्तुता अपि प्रदीपगता आग्नेयाः पुद्गलाश्चक्षुह्या भूत्वा पश्चाद्विध्यते तस्मिन् प्रदीपे त एव तामसीभूताः सन्तो प्राणेन्द्रियग्राह्यतामुपयान्ति । ततश्च यथा अनन्तरोक्तखरूपपरिणामा१२ न्तरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते तथा जीवोऽपि कर्मविरहितः केवलाऽमूर्त्तजीवखरूपलाभलक्षणमबाधं परिणामान्तरं प्राप्तो निर्वाण उच्यते, तस्माद्दुःखादिक्षयरूपा विद्यमानस्य जीवस्य काचिद्विशि१५ ष्टावस्था निर्वाणमिति स्थितम् ॥ २५ ॥
।
अथ निर्वाणस्यैव खरूपं स्पष्टयन्नाह - साऽनादिबन्धच्युतिरेव मुक्तिर्यत्रोल्लसेद्रव्यतयैव जीवः । १८ चश्ञ्चच्चिदानन्दमयः परात्मा दृषत्पृथग्भूतसुवर्णतुल्यः ॥ २६ ॥ अनादिः प्रवाहरूपेण आदिरहितो यो बन्धो जीवस्य कर्मणा सम्बन्धस्तस्य च्युतिर्ध्वंस एव सा मुक्तिरुच्यते इति शेषः । सा केत्याह — यत्र यस्यां मुक्तौ सत्यां जीवश्चेतनो द्रव्यतया द्रव्यत्वेनैव २२ स्वखरूपेणैवेत्यर्थः, उल्लसेत् उल्लसितो भवेत्, तदानीं पुद्गलजन्योल्ला -
१ अत्र 'सानादिबन्धच्युतिः' इति काशीमुद्रितपाठः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334