Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
२८५
क्लृप्त्वा । क्लृप्त्वेति । क्लृपूधातोः पूर्वकाले क्त्वा उदितात्पक्षे नेट् । अङ्गेत्यादि । 'अजाद्यदन्तम् ' (२|३|३३ ) इति द्वन्द्वेऽङ्गशब्दस्य पूर्वनिपातः ॥ ३८ ॥
ततस्ते गणभृतः किं कृतवन्त इत्याहविहृत्य भूमौ प्रतिबोध्य सङ्घ चतुर्विधं वीरजिनाज्ञयैते । संप्रेषयामासुरिमं भवान्धेर्निस्तार्य मुक्तिं त्रिदशालयं वा ॥ ३९॥ ६
---
एते गणधरा वीरजिनस्य आज्ञया आदेशेन भूमौ पृथिव्यां विहृत्य विहारं कृत्वा चतुर्विधं चतुःप्रकारं सङ्घ साध्वादिसमूहं प्रतिबोध्य इमं स भवाब्धेः संसारसमुद्रान्निस्तार्य, सन्मार्ग प्रवर्तनादि - ९ नेति शेषः । मुक्तिं मोक्षं वाऽथवा त्रिदशानां देवानामालयो गृहं त्रिदशालयः स्वर्गस्तं सम्प्रेषयामासुः नियोजयामासुः, प्रापयामासुरिति यावत् । तत्प्रतिबोधिताः केचिन्मुक्ति केचिच्च खर्गं जग्मुरिति भावः । १२ संप्रपूर्वात् 'इष गतौ' इत्यस्माद्धेतुमण्ण्यन्ताल्लिट् । आमि गुणे च कृते 'एङि पररूपम् ' ( ६ । ११९४ ) इति पररूपम् । इममिति । 'गतिबुद्धि - ' (१।४।५२ ) इत्यादिनाऽणिकर्तुर्णौ कर्मत्वम् ॥ ३९ ॥
अथ भगवतः कृत्योपसंहारमाह
इत्थं तीर्थपतिः समेत्य विदिताऽपापानगर्यन्तिके रम्ये श्रीमहननामनि वने सन्दर्य विश्वेशताम् । मिथ्यात्वं परिमार्ण्य याज्ञिकनृणां छित्वा च तत्संशयान्
स्वयं मुक्तिपथप्रचारचतुरं प्रावीवृतच्छासनम् ॥ ४० ॥ तीर्थपतिः श्रीवीरजिनेन्द्रः इत्थमुक्तप्रकारेण विदिताया लोके प्रसिद्धाया अपापान गर्यो अन्तिके समीपे रम्ये मनोहरे श्रीः पुष्पादि २२
१५
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334