Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 319
________________ २८६ श्रीगौतमीयकाव्यं लक्ष्मीस्तद्युक्ते महसेननामनि वने समेत्य आगत्य विश्वेशतां त्रैलोक्येश्वरत्वं सन्दर्य सम्यग् दर्शयित्वा याज्ञिकनृणां यज्ञकर्तृमनुष्याणां ३ गौतमादीनां मिथ्यात्वं परिमार्य संशोध्य, च पुनस्तेषां संशयास्तत्संशयास्तान् छित्त्वा निराकृत्य मुक्तिपथे मोक्षमार्गे यः प्रचारो जनानां सञ्चारणं तत्र चतुरं निपुणं खस्य इदं स्वीयं शासनं आदेशं प्रावीवृतत् प्रवर्त्तयति स्म । प्रपूर्वात् 'वृतु वर्तने' अस्माद्धेतुमण्ण्यन्ताल्लुङि चङ् । उर्ऋत् (७४।७) इति गुणापवादपाक्षिकऋदादेशः । शासनमिति । 'आज्ञाशिष्टिर्निरानिभ्यो देशो नियोगशासने' इति हैमः ॥४०॥ ९ अथ कविरेतत्काव्यस्याऽविच्छेदप्रवृत्त्यर्थमाशीर्वादात्मकमन्तिम मङ्गलमाह____ भव्याम्भोरुहबोधने दिनकरस्त्रिंशत्समा भूतले १२ मोहाज्ञानतमोभरं विघटयन् यो धर्मराज्यं व्यधात् । यश्चाहाय निनाय जन्तुनिकरं स्वर्गापवर्गालयं स श्रीवीरजिनेश्वरो भवतु नः सङ्घस्य च श्रेयसे ॥४१॥ १५ भव्या एव अम्भोरुहाणि कमलानि तेषां बोधने प्रबोधोत्पादने दिनकरः सूर्य इव यः स तथोक्तः, 'हलदन्तात्' (३।६।९) इति सप्तम्या अलुक् पृथक्पदं वा, एवंविधो यः प्रभुभूतले पृथिव्यां १० मोहश्च मूछोऽज्ञानं च कुबोधो मोहाज्ञाने तद्रूपं यत्तमोऽन्धकारं तस्य भरमतिशयं विघटयन् दूरीकुर्वन् त्रिंशसमास्त्रिंशद्वर्षाणि यावत् धर्मराज्यं धर्मसम्बन्धिसाम्राज्यं व्यधात् करोति स्म, च पुनर्यः २१ प्रभुरहाय शीघ्रं जन्तुनिकरं भव्यजीवसमूहं वर्गापवर्गालयं त्रिदिव मोक्षस्थानं निनाय प्रापयति स्म । स श्रीवीरजिनेश्वरो नोऽस्माकं च २३ पुनः सङ्घस्य साध्वादिसमूहस्य चतुर्विधस्य श्रेयसे कल्याणाय भवतु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334