Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 322
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २८९ गीतार्थास्तु तथापि युक्तिकविताकार्ये श्रमं प्रेक्ष्य मे 'साधो ! साधु कृतं त्वये'ति ददतामुत्साहमेवेप्सितम् ॥४ एतत्पद्यचतुष्टयमपि स्पष्टार्थमिति न व्याख्यातम् । ३ ॥ इति ग्रन्थकृत्कृता प्रशस्तिः॥ ॥ अथ टीकाकृत्प्रशस्तिः॥ बाहुज्ञानवसुक्षमा ( १८५२) प्रमितिजे वर्षे नभस्युंज्वलै- ६ कादश्यां विलसत्तिथौ कुमुदिनीनाथान्वितायामिह । श्रीमज्जेसलमेरुनाम्नि नगरे श्रीमूलराजेश्वरे राज्यं कुर्वति यादवान्वयरवौ सन्न्यायमार्गाश्रिते ॥ १॥ ९ श्रीदेवार्थपदाब्जसेवनपटुश्रीमत्सुधर्मान्वये पूज्यश्रीजिनचन्द्रसूरिमुनिपे गच्छेशतां बिभ्रति । श्रीमत्पाठकरूपचन्द्रवचसामर्थप्रकाशे क्षमा रम्याऽसौ परिपूर्णतामभजत व्याख्या सदाख्यानभृत् ॥ २ ॥ प्रारब्धा निधिनेत्रसिद्धिवसुधा (१८२७ ) संख्ये सुसंवत्सरे याऽऽसीत्सद्गुणभाजि राजनगरे श्रीगुर्जरत्रावनौ । पूज्यश्रीजिनलाभसूरिसुगुरौ सैद्धान्तिकानुत्तरे सगुच्या समयोचितेन विधिना गच्छावनं कुर्वति ॥ ३ ॥ त्रिभिर्विशेषकम् । १८ १ भाद्रपदमासे। २ चन्द्रेण युक्तायाम् । ३ मूलकृद्वचसाम् अर्थप्रकाशने समर्था-क्षमा अत एव रम्या इत्यर्थः । १९ गौ० का० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334